श्रद्धया परया तप्तं तपस्तत् त्रिविधं नरैः । अफलाकाङ्क्षिभिर्युक्तैः सात्त्विकं परिचक्षते ।। १७ ।।

श्रद्धया परया तप्तं तपस्तत् त्रिविधं नरैः ।

अफलाकाङ्क्षिभिर्युक्तैः सात्त्विकं परिचक्षते ।। १७ ।।

भावरत्नकोशः

गीताक्षरार्थस्तु एवं शरीरादिभेदेन त्रिविधमपि तपः सात्त्विकादिभेदेन त्रिविधमित्युच्यते– श्रद्धयेत्यादिभिस्त्रिभिः । तत् शरीरादिभेदेन त्रिविधमपि तपः परया प्रकृष्टया श्रद्धया आस्तिक्यनिष्ठया अफलाकाङ्क्षिभिः फलाकाङ्क्षारहितैः युक्तैः भगवदर्पणादियोगयुक्तैः । न केवलं तपस एवैतदुच्यते, किन्तु यज्ञदानयोरप्येतदनुसन्धेयम् इत्यन्यतोऽवसेयम् । नरैः पुरुषैः तप्तम् अनुष्ठितं तपः सात्त्विकं सात्त्विकजीवस्वरूपज्ञापकं परिचक्षते कथयन्ति शिष्टाः ।। १७ ।।