नैनं छिन्दन्ति शस्त्राणि नैनं दहति पावकः । न चैनं क्लेदयन्त्यापो न शोषयति मारुतः।। २३ ।।

नैनं छिन्दन्ति शस्त्राणि नैनं दहति पावकः ।

न चैनं क्लेदयन्त्यापो न शोषयति मारुतः।। २३ ।।

भाष्यम्

स्वतः प्रायोनिमित्तैश्चाविनाशिनोऽपि केनचिन्निमित्तविशेषेण स्यात्, ककच्छेदवत् इत्यतो विशेषनिमित्तानि निषेधति– नैनमिति ।। २३ ।।

भावप्रदीपिका

सर्वप्रकारमनित्यत्वमीशस्य निषिद्धत्वात् किमुत्तरश्लोकेन? इत्यत आह– स्वत इति ।। स्यात् ‘नाशः’ इति शेषः । ककच्छेदो दक्षशिरश्छेदः ।। २३ ।।

भावप्रकाशिका

ननु नैमित्तिकनाशस्यापि निरस्तत्वात् किमुत्तरश्लोकेनेत्यत आह– स्वत इति ।। २३ ।।

प्रमेयदीपिका

नैमित्तिकनाशस्य प्राङि्नरस्तत्वात् किं ‘नैनम्’ इति श्लोकेन? इत्यतः तन्निवर्त्या-शङ्काप्रदर्शनपूर्वकं तात्पर्यमाह– स्वत इति ।। स्वतः कालतः । प्रायः बाहुल्येन । शङ्क्यमान-निमित्तव्यावृत्त्यर्थमेतदव्ययम् । ‘केनचित्’ शस्त्रादिना । स्यात् ‘विनाशः’ इति शेषः । असम्भावितशङ्काया न पर्यवसानमित्यतो दृष्टान्तमाह– ककच्छेदवदिति ।। यथा दक्षस्य प्रजापतेः शिरच्छेदो न स्वतो जातः, नापि वीरभद्रस्यायुधेन निमित्तेन, किन्तु यज्ञपशुभाव-नाख्येन निमित्तविशेषेण तथेत्यर्थः । इत्यतः एवं शङ्कितत्वात् । विशिष्यन्त इति विशेषाः । विशिष्टनिमित्तानि विनाशस्य ।। २३ ।।

भावबोधः

ननु निमित्तवविशेषानिति वक्तव्यम् । तत्कथं विशेषनिमित्तानीत्युक्तमित्यत आह– विशिष्यन्त इति ।।

भावदीपः

प्राङि्नरस्तत्वादिति ।। ‘अन्तवन्त इमे’ (२.१८) इति श्लोेके बिम्बोपाधितत्सन्निधीनां नाशनिमित्तकनाशस्य निरस्तत्वादित्यर्थः ।। ‘प्रायः’ इत्यनुवादः,‘बाहुल्येन’ इति व्याख्या । तस्य कृत्योक्तिः शङ्क्यमाननिमित्तव्यावृत्त्यर्थमेतदव्ययमिति ।। ‘नैनम्’ इति श्लोके नाशहेतुतया यच्छस्त्रपावकादिकं शङ्क्यते तद्व्यावृत्तबिम्बनाशादिनिमित्तग्रहणायैतद्विशेषणम् ।। अव्ययमिति स्वरूपकार्तनम् ।। यज्ञपशुभावनयेति ।। उक्तं हि चतुर्थस्कन्धे–

दृष्ट्वा सञ्ज्ञपने योगं पशूनां स पतिर्मखे ।

यजमानपशोः कस्य कायात् तेनाहरच्छिरः ।। इति ।। २३ ।।

भावरत्नकोशः

प्राक् ‘अनाशिनः’ इत्यत्र ‘अविनाशिनम्’ इत्यत्र च । उभयत्र तथा भाषणादिति भावः । ‘प्रायः’ इति भाष्यपदमनूद्य व्याकुर्वंस्तस्य कृत्यमाह– प्रायो बाहुल्येन शङ्क्यमानेति ।। ‘नैनम्’ इत्यत्र निषेध्यतया यत् केनचिच्छस्त्रादिनेति निमित्तं शङ्क्यते तद्व्यावृत्त्यर्थमुपाधि-नाशाद् बिम्बनाशादुपाधिबिम्बसन्निधिनाशाद् वा नाशोऽस्त्वित्यादिरूपैराशङ्कितैर्बहुतर-निमित्तैर्नाशशून्यस्यापि शङ्क्यमानशस्त्रादिरूपनिमित्तविशेषं व्यावर्तयितुमेतत् प्राय इति पद-मित्यर्थः । प्रायः पदाभावे कालतो निमित्तैश्चानाशिनोऽपि निमित्तविशेषेण नाशोऽस्त्विति शङ्कैव विप्रतिषिद्धेति भावः ।।

ननु ‘निमित्तकारणहेतुषु सर्वासां प्रायदर्शनम्’, ‘वेदो वा प्रायदर्शनात्’ इत्यादिप्रयोगात् ‘प्रायः स्यात् ताडने मृत्यौ तुल्यबाहुल्ययोरपि’ इति विश्वनिघण्टावुक्तेश्च बाहुल्यार्थः प्राय-शब्दोऽयमकारान्तः । तस्माच्च ‘प्रकृत्यादिभ्य उपसङ्ख्यानम्’ इति तृतीयायां प्रायेणेति स्यात् । समस्तत्वे प्रायनिमित्तैरिति भवेत् । भूमार्थस्य निमित्तपदसामान्याधिकरण्यायोगश्चेत्यत आह– अव्ययमिति ।। बाहुल्यार्थं प्राय इति पदं सान्तमव्ययमप्यस्ति । ‘अल्पे नीचैर्महत्युच्चैः प्रायो भूम्नयद्रुते शनैः’ इत्यमरेण सान्ताव्ययैः सह पाठात् । अत उपपन्नं प्रायोनिमित्तैरिति भाषणमिति भावः ।।

 शस्त्रादिना अनलानिलादिना । एकः कशब्दः प्रजापतिविशेषार्थः । अन्यस्तु शिरोवाचक इति भावेन दृष्टान्तभाष्यं व्याचष्टे– यथेति ।। नापि वीरभद्रस्यायुधेनेति ।।

भृगुं बबन्ध मणिमान् वीरभद्रः प्रजापतिम्’ इति प्रस्तुतवीरभद्रस्य

शस्त्रैरस्त्रान्वितैरेनमनिर्भिन्नत्वचं हरः’

इति तत्र शस्त्रायुधप्रयोगो मोघ इत्याभिधानादिति भावः । यज्ञपशुभावनाख्येन निमित्त-विशेषेणेति । ‘विस्मयं परमापन्नो दध्यौ पशुपतिश्चिरम्’ इति ध्यानमुक्त्वा

दृष्ट्वा सञ्ज्ञपने योगं पशूनां स पतिर्मखे ।

 यजमानपशोः कस्य कायात् तेनाहरच्छिर’

इति श्लोके मख इत्युक्तेर्यजमानस्य पशुत्वोक्तेश्च यज्ञपशुभावनारूपमेव ध्यानं योगमुपाय-मास्थाय शिरो जहारेति विभावनादिति भावः ।।

ननु भावसाधनो विशेषशब्दः कथं निमित्तशब्देन समानाधिकरणः स्यादित्यतो नासौ भावघञन्तः, किन्तु कर्मणीति भावेनाऽह– विशिष्यन्त इति ।। तात्पर्यमाह– विशिष्टेति

।। २३ ।।

भावदीपिका

प्रागिति ।। ‘विनाशमव्ययस्यास्य न कश्चित् कर्तुमर्हति’ इत्यत्रेत्यर्थः । प्रायःशब्दव्यावर्त्यं दर्शयति– शङ्क्यमानेति ।। केनचिदिति शङ्क्यमानेनेत्यर्थः । प्रायःशब्दाभावे स्वतो निमित्तैश्चा विनाशिनोऽपि निमित्तविशेषेण नाशः स्यादित्युक्ते विरोधापत्तेरिति ध्येयम् ।

ननु ‘प्रायोनिमित्तैश्च’ इत्यत्र प्राय इत्यस्याकारान्तशब्दत्वे भिन्नपदत्वे च प्रायैरिति स्यात् । समस्तत्वे तु प्रायनिमित्तैरिति भवेत् । प्रायोनिमित्तैरिति तु कथमित्यत आह– अव्ययमिति ।। असम्भावितेति ।। स्वतः बहुतरनिमित्तैश्चानाशिनोऽपि केनचिन्निमित्तविशेषेण नाशशङ्का कुत्राप्यदृष्टत्वादसम्भावितेत्यर्थः ।। नापि वीरभद्रस्येत्यादि ।। यथोक्तं भागवते चतुर्थस्कन्धे–

शस्त्रैरस्त्रान्वितैरेनमनिर्भिन्नत्वचं हरः ।

 विस्मयं परमापन्नो दध्यौ पशुपतिश्चिरम् ।।

 दृष्ट्वा सञ्ज्ञपने योगं पशूनां स पतिर्मखे ।

 यजमानपशोः कस्य कायात् तेनाहरच्छिरः’ ।। इति ।

ननु विशेषनिमित्तानीत्ययुक्तम् । तथात्वे विशेषाणामेव निमित्तताप्राप्त्या प्रकृतासङ्गतेः निमित्तविशेषानिति वक्तव्यमित्यतः अर्थत ऐक्यमेवेत्याशयेनाह– विशिष्यन्त इति ।। विपूर्वका-च्छिष्लृ विशेषण इत्यस्मात् कर्मणि घञि गुणे च कृते विशेष इति भवति ।। विशिष्ट-निमित्तानि ।। इतरविलक्षणनिमित्तानीत्यर्थः ।। २३ ।।

भावप्रकाशः

प्रागिति ।। नित्यस्यानाशिन इत्यादावित्यर्थः । ननु ‘प्रायः स्यात्ताडने मृत्यौ तुल्यबाहुल्ययोरपि’ इति विश्वोक्तेर्वेदो वा प्रायदर्शनादिति प्रयोगाच्च बाहुल्यार्थः प्रायशब्दोऽ-कारान्तस्तस्मात् प्रकृत्यादित्वात् तृतीयायां प्रायेणेति स्यात् । प्राय इति तु कथमित्यत उक्तम्– अव्ययमिति ।। बाहुल्यार्थं प्राय इति सान्तमव्ययमप्यस्ति । ‘अल्पे नीचैर्महत्युच्चैः प्रायो भूम््नयद्रुते शनैरित्यमरेण सान्ताव्ययैः सहोक्तेः । ततः प्रायो’ इत्युपपन्नमिति भावः । यज्ञपशु-भावनाख्येनेति ।। यद्यपि चतुर्थस्कन्धे दध्यौ पशुपतिश्चिरमिति ध्यानमात्रमुक्तम् । न तु उक्त-रूपम् । तथाऽपि ‘दृष्ट्वा संज्ञपने योगं पशूनां स पतिर्मखे । यजमानपशोः कस्य कायात्तेना-हरच्छिर’ इत्युत्तरश्लोके मख इत्युक्तेः यजमानस्य पशुत्वोक्तेश्चोक्तप्रकारध्यानमेव दध्यावित्यनेन ग्राह्यमित्यभिप्रेत्यैवमुक्तम् । ननु भावसाधनस्य विशेषशब्दस्य कथं निमित्तशब्दसामानाधि-करण्यमित्यत आह– विशिष्यन्त इति ।। कर्मणि घञनेऽत्र विशेषशब्द इति भावः ।। २३ ।।