अमी च त्वा धृतराष्ट्रस्य पुत्राः सर्वे सहैवावनिपालसङ्घैः । भीष्मो द्रोणः सूतपुत्रस्तथाऽसौ सहास्मदीयैरपि योधमुख्यैः ।। २६ ।।
अमी च त्वा धृतराष्ट्रस्य पुत्राः सर्वे सहैवावनिपालसङ्घैः ।
भीष्मो द्रोणः सूतपुत्रस्तथाऽसौ सहास्मदीयैरपि योधमुख्यैः
।। २६ ।।
भावरत्नकोशः
गीताक्षरार्थस्तु अमी च त्वेति ।। अमी दुर्योधनप्रभृतयः । सूतपुत्रः कर्णः । योधमुख्यैः भटप्रधानैः सह त्वरमाणाः वक्त्राणि विशन्ति । ननु धृतराष्ट्रपुत्रादीनां भगवन्मुखप्रवेशोन्मुखचेष्टाऽभावात् कथं ‘अमी च त्वा धृतराष्ट्रस्य पुत्राः’ इत्याद्युच्यते ? इति चेदुच्यते भगवन्मुखप्रवेशानुन्मुखचेष्टानामपि भगवन्मुखचेष्टयैव तत्र प्रवेशाद् उपचारेण ‘विशन्ति’ इति प्रयोगो युज्यते । प्रलयोदकप्रवेशानुन्मुखचेष्टानां प्रजानां तच्चेष्टयैव तत्र प्रवेशे ‘प्रविष्टा उदकं प्रजाः’ इति प्रयोगवत् । भगवन्मुखचेष्टयैव तत्र प्रवेशश्चेत् धार्तराष्ट्रसेनाया एव स भवेत् । भगव-न्मुखानां तदभिमुखत्वात् । अतः ‘सहास्मदीयैः’ इत्ययुक्तं स्यादिति चेन्न । सेनामध्यगतभगव-न्मुखानाम् उभयाभिमुखत्वाद्् उभे सेने तत्र प्रविशत इति ‘सहास्मदीयैः’ इति वचनोपपत्तेः
।। २६ ।।
भावप्रकाशः
गीतायाममी च त्वा धृतराष्ट्रस्य पुत्रा इति । पुत्राः ते वक्त्त्राणि विशन्तीत्यन्वयः, न च त्वेत्यस्यानन्वयः । त्वा त्वरमाणाः त्वत् प्रति धावन्त इत्युपपत्तेरिति बोध्यम् । तु आ इति पदच्छेदः । आ इत्यस्य विशन्तीत्यनेनसम्बन्ध इत्यप्याहुः ।। २६ ।।