यामिमां पुष्पितां वाचं प्रवदन्त्यविपश्चितः । वेदवादरताः पार्थ नान्यदस्तीति वादिनः।। ४२ ।।
यामिमां पुष्पितां वाचं प्रवदन्त्यविपश्चितः ।
वेदवादरताः पार्थ नान्यदस्तीति वादिनः।। ४२ ।।
भाष्यम्
स्युरवैदिकानि मतान्यव्यवसायात्मकानि । नतु वैदिकानि । तेऽपि हि केचित् कर्माणि स्वर्गादिफलान्येवाहुरित्यत आह– यामिमामिति ।। यामाहुस्तयेत्यन्वयः । मोक्षफलमपेक्ष्य स्वर्गादिपुष्पयुक्तां वाचं प्रवदन्ति ।।
भावप्रदीपिका
व्यवसायात्मिका वागेकेत्येतदाक्षिप्य समाधातुं श्लोकमवतार्य व्याचष्टे– स्युरिति ।। भोगैश्वर्यगतेरपि स्त्रीलिङ्गेन प्रकृतत्वादन्यथाप्रतीतिं पराकर्तुं बोधान्वयमाह– यामिति ।। वाचः पुष्पितत्वं कथम्? इत्यत आह– स्वर्गादीति ।।
भावप्रकाशिका
न तु वैदिकानां स्वमतानामित्यनेन सम्बन्धः । मतानामनन्तानां सम्यग्युक्तिनिर्णय-राहित्यशङ्काभावात् तत्रैव विप्रतिपत्तौ पुनः कथमेकत्र परिनिष्ठा? इति भावेनाशङ्क्य, उत्तर-श्लोकमवतारयति– स्युरिति ।। तेऽपि केचित् वैदिकाः कर्माणि स्वर्गादिफलान्येवाहुः । न तु ‘ज्ञानात् पूर्वाणि कर्माणि शुभानि ज्ञानसिद्धये’ इत्याद्युक्तव्यवस्थामङ्गीकुर्वन्तीति भावः । ‘तया’ भोगैश्वर्यगत्येत्यपि शङ्का स्यात् । सा मा भूदित्याह– यामाहुरिति ।। ‘ननु स्वर्ग एव परः पुरुषार्थस्तदन्यं मोक्षाख्यं फलं नास्ति’ इति वादिनः ते पुष्पयुक्तामेव वाचं प्रवदन्ति । वस्तुतो मोक्षापेक्षया स्वर्गादेः पुष्पतुल्यत्वादिति भावेन द्वितीयपादं व्याचष्टे– मोक्षफलमिति ।। अविपश्चित्त्वाविरोधेन तदुत्तरपदमनूद्य व्याचष्टे– वेदवादरता इति ।।
प्रमेयदीपिका
‘यामिमाम्’ इति श्लोकत्रयस्य प्रकृतोपयोगादर्शनात् सङ्गतिमाह– स्युरिति ।। न तु वैदिकानि अव्यवसायात्मकानि । ततः किं प्रकृते? इत्यत उक्तम्– तेऽपीति ।। व्यवसायात्मकं मतं वैदिकमवलम्बमाना अपि केचिद् वैदिकान्यपि सर्वाण्येव कर्माणि स्वर्गादिफलान्याहुः । भवांस्तु काम्यार्थान्येव (कर्माणि) स्वर्गादिफलकानि । निष्कामानीश्वरार्पणबुद्ध्या अनुष्ठितानि तु ज्ञानार्थानीत्यभिप्रैति । तथाच त्वद्वचने निष्ठानुपपत्तिस्तदवस्थेति भावः । आह । ‘तेषां वैदिकाभासताप्रदर्शनाय निन्दाम्’ इति शेषः ।।
भोगैश्वर्यगतेरपि प्रकृतत्वात् ‘तया’ इति तत्परामर्शभ्रान्तिं वारयति– यामिति ।। अन्यथा यच्छब्दः साकाङ्क्षोऽनन्वितः स्यादिति भावः ।। वाचः पुष्पितत्वं कथम्? इत्यत आह– मोक्षेति ।। अत्यल्पत्वेनोपमा ।।
भावबोधः
अभिप्र्रैतीति ।। कर्मबन्धं प्रहास्यसीति कर्मयोगस्य मोक्षसाधनत्वोक्त्या तज्जनकज्ञानहेतुत्व-स्याभिप्रेतत्वादिति भावः । ननु पुष्पफलयोरिव स्वर्गमोक्षयोर्जन्यजनकभावेन तदुपमत्वमिति अन्यथा प्रतीतिनिरासायाह– अत्यल्पत्वेनेति ।। यथा फलापेक्षया पुष्पस्यात्यल्पत्वमेवं मोक्षा-पेक्षया स्वर्गस्याल्पत्वेनेत्यर्थः ।।
भावदीपः
इत्यभिप्रैतीति ।। ‘बुद्ध्या युक्तो यया’ इत्यर्धे कर्मयोगस्य ज्ञानद्वारा कर्मबन्धहानिरूप-मोक्षहेतुत्वोक्तेरिति भावः । स्वर्गादेः पुष्पत्वोक्तिं घटयति– अत्यल्पत्वेनेति ।। फलापेक्षया पुष्पस्यात्यल्पत्वादिति भावः ।।
भावरत्नकोशः
प्रकृतेति ।। योगेत्यर्थः । अवैदिकानि प्रमाणानिर्णीततत्त्वार्थकानीति भाष्यार्थः ।। न तु वैदिकानीत्यनूद्य तत्रानुवर्त्यमाह– अव्यवसायात्मकानीति । प्रकृते एकत्र निष्ठायाः कर्तव्यत्वे । अभिप्रैतीति ।। कर्मबन्धं प्रहास्यसीति कर्मयोगस्य मोक्षसाधनत्वोक्त्या मोक्षसाधनज्ञान-जनकत्वमभिप्रैतीत्यर्थः । प्रकृतत्वात्, अव्यवधानेनेति शेषः । वाचः प्रकृतत्वेऽपि व्यवधानाद् बुद्धिविपरितवृत्तिभङ्ग इति भावः । अन्यथेति ।। ‘तयाऽपहृतचेतसाम्’ इत्यत्रत्यतच्छब्देन ‘आनन्तर्यमचोदना’ इति न्यायेन भौगैश्वर्यगतेरेव परामर्शाङ्गीकार इत्यर्थः । यच्छब्दः ‘यामिमाम्’ इति यच्छब्दः ।।
भावदीपिका
प्रकृतेति ।। योगनिरूपणेत्यर्थः । तेऽपीत्यस्यार्थमाह– व्यवसायात्मकमित्यादि ।। अभिप्रैतीति ।। ‘कर्मबन्धं प्रहास्यसि’ इति कर्मरूपयोगस्य मोक्षसाधनत्वोक्त्या तज्जनकज्ञान-हेतुत्वमप्यभिप्रेतमिति भावः । स्पष्टं तथाऽनुक्तेरभिप्रैतीत्युक्तम् ।। अन्यथेति ।। ‘तयाऽपहृत-चेतसाम् इत्यत्र तच्छब्देन वाचं विहाय भोगैश्वर्यगतिपरामर्शे’ याम् इति वाचि यच्छब्दोऽ-नन्वितः स्यादित्यर्थः । प्रसिद्धपुष्पफलयोरिव स्वर्गमोक्षयोरपि जन्यजनकभावेन तदुपमत्वमिति भ्रान्तिं वारयति– अत्यल्पत्वेनेति ।। यथा फलापेक्षया पुष्पस्यात्यल्पत्वमेवं मोक्षापेक्षया स्वर्गस्यात्यल्पत्वात् पुष्पत्वोपमेत्यर्थः ।।
भावप्रकाशः
स्वर्गादिफलानीति ।। सर्व एते पुण्यलोका भवन्ति । न स्वर्गादेः फलान्तरम् । हतो वा प्राप्स्यसि स्वर्गमित्याद्युक्तेरिति तेषां भावः । अभिप्रैतीति ।। हतो वा प्राप्स्यसि स्वर्गम् । स्वल्पमप्यस्य धर्मस्य त्रायते महतो भयादिति व्यामिश्रोक्त्यन्यथानुपपत्त्या काम्यानि स्वर्गादि-फलानि अकाम्यानि ज्ञानार्थानि ज्ञानं विना महामयरूपसंसारनिवर्तकत्वायोगादिति उक्तार्थ-द्वयावगमादभिप्रैतीत्युक्तम् । ननु पुष्पफलवत्स्वर्गमोक्षयोः जन्यजनकत्वाभावात् कथमुपमेत्यत आह– अत्यल्पत्वेनेति ।। फलापेक्षया पुष्पवत् मोक्षापेक्षया स्वर्गस्यात्यल्पत्वेनेत्यर्थः ।।