प्रसादे सर्वदुःखानां हानिरस्योपजायते । प्रसन्नचेतसो ह्याशु बुद्धिः पर्यवतिष्ठते ।। ६५ ।।
प्रसादे सर्वदुःखानां हानिरस्योपजायते ।
प्रसन्नचेतसो ह्याशु बुद्धिः पर्यवतिष्ठते ।। ६५ ।।
भाष्यम्
कथं प्रसादमात्रेण सर्वदुःखहानिः? प्रसन्नचेतसो हि बुद्धिः पर्यवतिष्ठति । ब्रह्मापरोक्ष्येण सम्यक् स्थितिं करोति । प्रसादो नाम स्वतोऽपि प्रायो विषयागतिः।। ६५ ।।
भावप्रदीपिका
कथं मनःप्रसादमात्रादपरोक्षज्ञानम् ? इत्यत आह– प्रसाद इति ।। ६४-६५ ।।
भावप्रकाशिका
‘निराहारस्य देहिनः’ ‘इन्द्रियाणि जयन्त्याशु निराहाराः’ इत्यनयोः समानार्थत्वात् निवृत्तविषयो हि जितेन्द्रियः । अयं तु रागद्वेेषवियुक्तत्वात् विषयाननुभवन्नपि ‘जितमनाः’ इति शेषः । अतः प्रसादो नाम स्वतोऽपि प्रायो विषयागतिः इत्येतद्रागतो विषयागतिरिति व्याख्येयम् । स्वतः इति प्रयत्नं विनेत्यर्थः
।। ६५ ।।
प्रमेयदीपिका
प्रसादे सति किं स्यात्? इत्यत उक्तं– प्रसाद इति ।। तदाक्षिपति– कथमिति ।। ‘तरति शोकमात्मवित्’ इत्यादिविरोधादिति भावः ।। किञ्च ‘प्रसादे सति ज्ञानं भवति’ इति वा व्यवधानान्तरं वा वक्तव्यम् । तन्नोक्तम् । सर्वदुःख-हानिस्त्ववक्तव्यैवोक्ता’ इति चाक्षेपशेषः । एतत्परिहारत्वेनोत्तरार्धं व्याख्याति– प्रसन्नेति ।।
एतेन प्रसादस्य फलद्वयमुच्यत इत्यपि प्रतीतिर्निरस्ता भवति । प्रसादे सति ब्रह्मा-परोक्षज्ञानं भवति । तच्च व्यवधानेनेति भविष्यति । ततो भवन्ती सर्वदुःखहानिः प्रसादफल-तयोक्तेति न वक्तव्यानुक्तिः । नाप्यवक्तव्योक्तिः । ‘बुद्धियुक्तः’ (२.५१) इति श्लोके सुकृतदुष्कृतहानं ज्ञानफलमित्युक्तम् । तदयुक्तम् । अपुरुषार्थत्वादित्याशङ्कां परिहर्तुं प्रसङ्गादिदमुक्तमिति ।।
ननु यस्यानासायेनाभिलषितविषयोपनतिः तस्य मनोऽव्याकुलं प्रसन्नमित्युच्यते । ततः कथं प्रसादस्येन्द्रियजयफलत्वं ज्ञानसाधनत्वं चोच्यते? इत्यत आह– प्रसादो नामेति ।। ‘अत्र विवक्षिता’ इति शेषः । स्वतोऽपि प्रयत्नं विनाऽपि । विषयागतिः विषयान् प्रति अप्रवृत्तिः ।। ६५ ।।
भावबोधः
।। एतेनेति ।। हि यस्मात् प्रसन्नचेतसः सर्वदुःखहानिहेतुभूता बुद्धिः पर्यवतिष्ठति, तस्मात् मनःप्रसादे सति सर्वदुःखहानिः ज्ञानद्वारा भवति इति पूर्वोत्तरर्धार्थयोः हेतुहेतुमद्भावरूपतया कथनेन प्रसादस्य सर्वदुःखहानिः, बुद्धिश्चेति स्वातन्त्र्येण फलद्वयं गीतायामुच्यत इति प्रतीतिर्निरस्ता भवतीत्यर्थः । अत एव भाष्ये हिशब्दसाहित्येन गीतानुवादः कृत इति भावः । व्यवधानेनेति ।। ‘नास्ति बुद्धिरयुक्तस्य’ इति वक्ष्यमाणप्रकारणेत्यर्थः ।। ततः कथमिति ।। अभिलषितविषयोपनतेरिन्द्रियजयसाध्यताया ज्ञानसाधनतायाश्च विरुद्धत्वादिति भावः ।। ६५ ।।
भावबोधः
उत्तरश्लोकं स्वयमेवावतारयति– प्रसादे सतीत्यादिना ।। तदिति ।। ‘प्रसाद’ इत्यादि पूर्वार्धोक्तमाक्षिपतीत्यर्थः । तत्रापरोक्षज्ञानं चित्तनिरोधादिव्यवधानेन ‘नास्ति बुद्धिरयुक्तस्य’ इत्युत्तरश्लोके भविष्यतीत्यर्थः ।। ततः अपरोक्षज्ञानादित्यर्थः ।। नाप्य-वक्तव्योक्तिरिति ।। वक्तव्यज्ञानस्योक्तेरिति भावः ।। व्यवधानेन भवतोेऽप्यनिष्टनिवृत्तिरूप-फलस्य वक्तव्यत्वादिति भावः ।। कुतः तस्य वक्तव्यता? इत्यत आह– बुद्धीत्यादिना ।। ज्ञानसाधनत्वञ्चेति ।। व्यवधानेनेति भावः ।। ६५ ।।
भावरत्नकोशः
उत्तरभाष्यं सङ्गमयितुं गीतामवतारयति–प्रसादे सतीति ।। तत् मनःप्रसादेन सर्वदुःखहानम् । ‘तरति शोकमात्मवित्’ इत्यादावात्मज्ञानिनः शोकशब्दित-सर्वदुःखप्रहाणिः श्रूयते । मनःप्रसादमात्रेण सर्वदुःखहान्युक्तौ तद्विरोधः स्यादित्यर्थः । एतेनेति ।। ‘कथं मनःप्रसादमात्रेण सर्वदुःखहानिः’ इत्याक्षेपपूर्वक ‘प्रसन्नचेतसो हि’ इत्यादिभाष्येणेत्यर्थः । न केवलमुक्ताक्षेपनिरास इत्यपेरर्थः । तच्चेति ।। अपरोक्षज्ञानं व्यवधानेन चित्तनिरोधादिव्यवधानेनेत्येतत् ‘नास्ति बुद्धिरयुक्तस्य’ इत्युत्तरश्लोके भविष्यतीत्यर्थः । ततः अपरोक्षज्ञानात् । वक्तव्यानुक्तिः अवश्यवक्तव्यज्ञानानुक्तिः । सर्वदुःखहानिरवक्तव्येत्युक्तम् । तदपि नेत्याह– नापीति ।। व्यवधानेन भवतोऽप्यनिष्टनिवृत्तिरूपफलस्य वक्तव्यत्वादिति भावः । तत् कथमत्र सङ्गतमित्यत आह– बुद्धियुक्त इति ।। अपुरुषार्थत्वात् सुखावाप्ति-दुःखहान्योरेव पुरुषार्थत्वादिति भावः । अभिलषितविषयोपनतिः इष्टविषयलाभः । ततः कथमिति ।। अव्याकुलत्वापरपर्यायमनःप्रसादस्येन्द्रियजयफलत्वं नोपपद्यते । अनायासेनाभि-लषितविषयोपनतिफलत्वात् । इन्द्रियाणामभिलषितविषयेभ्यः प्रत्याहरणं हि जयः । तथा तस्य ज्ञानसाधनत्वं चायुक्तम् । विषयोपभोगजन्याव्याकुलत्वस्य विषयविरागसाध्यज्ञानसाधनत्व-विरोधादिति भावः । विषयाणामागतिरिति प्रतीतौ पुनरुक्तचोद्यापरिहार एवेत्यतो व्याचष्टे– विषयान् प्रत्यप्रवृत्तिरिति ।। विवक्षितप्रसादस्येन्द्रियजयफलत्वं ज्ञानसाधनत्वं च न विरुद्धमिति भावः ।।
गीताक्षरार्थस्तु– अस्त्वेवं रागद्वेषपरिहारः, ततः किमित्यपेक्षायां रागद्वेषपरिहारस्येन्द्रिय-जयाख्यम्, इन्द्रियजयाच्च किं स्यादित्याकाङ्क्षायां ततो जायमानं फलमुच्यते रागद्वेषेति द्वाभ्याम् ।। य उक्तविधया त्यक्तरागद्वेषः सः रागद्वेषवियुक्तैः ताभ्यामप्रयुक्तैः आत्मवश्यैः स्वाधीनैः इन्द्रियैः केवलं शरीरधारणार्थं विषयान् ईश्वरनुन्नाननुभवन्नपि विधेयात्मा स्वाधीन आत्मा मनो यस्य स तथा स भवति । तत एव बाह्येन्द्रियाण्यपि तस्य वश्यानि भवन्ति । अनेन पादत्रयेण रागद्वेषपरिहारस्येन्द्रियजयाख्यं फलमुक्तम् ।
इन्द्रियजयेनापि किं स्यादिति द्वितीयाकाङ्क्षोत्तरत्वेनेन्द्रियजयस्य ज्ञानं व्यवहितफलमिति दर्शयितुं साक्षात् फलमुच्यते – विधेयात्मा प्रसादमधिगच्छतीति ।। तत्र प्रसादो नाम प्रयत्नेन विनाऽपि मनसः प्रायो विषयान् प्रत्यप्रवृत्तिरत्र विवक्षिता । तामधिगच्छति प्राप्नोति । प्रसादे सति किं स्यादित्यत उच्यते – प्रसाद इति ।। मनसः प्रसादे सति अस्य प्रसन्नचेतसः पुरुषस्य आशु बुद्धिः ब्रह्मापरोक्षज्ञानं पर्यवतिष्ठति सम्यग् भवति । ततश्चास्यापरोक्षज्ञानिनः सर्वदुःखानां हानिरुपजायते समीपे निष्पद्यते । हि प्रसिद्धमेतत् ‘तरति शोकमात्मवित्’ इत्यादाविति ।। ‘बुद्धियुक्तः’ इति श्लोके सुकृतदुष्कृतहानं ज्ञानफलमुक्तम् । तदयुक्तम् । अपुरुषार्थत्वादिति शङ्कां परिहर्तुं प्रसङ्गादिदमुदितमिति ।। ६४-६५ ।।
भावदीपिका
।। तरतीति ।। ज्ञानेनैव सर्वदुःखहानिश्रवणान्न मनःप्रसादेन सर्वदुःखहानिरित्याशयः ।। व्यवधानान्तरमिति ।। प्रसादेन ज्ञाने जननीयेऽन्यद् व्यवधानं वा वक्तव्यमित्यर्थः ।। अवक्तव्यैवेति ।। सर्वदुःखहानेर्मनःप्रसादफलत्वाभावादिति भावः ।। एतेनेति ।। भाष्ये ‘प्रसन्नचेतसो हि’ इति हिशब्दसाहित्येन गीतानुवादकरणेनेत्यर्थः ।। फलद्वयमिति ।। प्रसाद इति श्लोकेन सर्वदुःखहानिर्बुद्धिश्चेति स्वातन्त्र्येण फलद्वयमित्यर्थः । कथमित्यत आह– प्रसादे सतीति ।। हि यस्मात् प्रसन्नचेतसः सर्वदुःखहानिहेतुभूता बुद्धिः पर्यवतिष्ठति, एवं प्रसादे मनःप्रसादे सति जातया बुद्ध्या सर्वदुःखानां हानिरस्योपजायते इति योज्यम् ।। व्यवधानेनेति ।। चित्तनिरोधाख्ययुक्तिद्वारेत्यर्थः । भविष्यति ‘नास्ति बुद्धि-रयुक्तस्य’ इति वक्ष्यमाणप्रकारेणेत्यर्थः । अतो न वक्तव्यस्य व्यवधानस्यानुक्तिरित्यन्वयः । ततः ज्ञानात् ।। प्रसादफलतयेति ।। एवं परम्परामभिप्रेत्य ‘प्रसादे सर्वदुःखानां हानिः’ इत्युक्तमिति । नाप्यवक्तव्योक्तिः सर्वदुःखहानेः परम्परया प्रसादफलत्वेनावक्तव्यत्वाभावादिति भावः । ननु सत्यमेवं वस्तुगतिस्तथाऽप्यत्र सर्वदुःखहानेर्ज्ञानफलत्वोक्तौ का सङ्गतिरित्यत आह– बुद्धीति ।। अपुरुषार्थत्वादिति ।। इष्टप्राप्त्यनिष्टनिवृत्त्योरन्यतरत्वाभावादिति भावः ।। परिहर्तुमिति ।। अनिष्टनिवृत्तिरूपत्वादित्याशयेनेत्यर्थः ।। प्रसङ्गादिदमिति ।। ‘प्रसन्नचेतसो ह्याशु बुद्धिः पर्यवतिष्ठति’ इति बुद्धिरूपमनःप्रसादफलकथनेन तत्फलरूपाया दुःखनिवृत्तेरपि स्मारितत्वेन प्रसङ्गसङ्गत्योक्तमिति भावः । उपनतिः प्राप्तिः ।। इन्द्रियजयफलत्वमिति ।। इन्द्रियजयाभावेऽपि उक्तरूपमनःप्रसादसद्भावादित्याशयः ।। ज्ञानेति ।। अभिलषितविषयोपनतौ च तादृशप्रसादस्य ज्ञानसाधनत्वं विरुद्धमिति भावः । अप्रवृत्तिः मनस इति शेषः ।। ६५ ।।
भावप्रकाशः
।। इत्यत उक्तमिति ।। गीतायामिति शेषः । एतेनेति ।। कथं प्रसादमात्रेण सर्वदुःखहानिरित्याक्षेपपूर्वकं ‘प्रसन्नचेतसो हि’ इत्येतत्परत्वव्याख्याने कृत एवोक्ताक्षेपनिरासो नान्यथा । तेनान्यथाप्रतीतिनिरास इति भावः । अत एव भाष्ये हिशब्द-साहित्येन गीतानुवाद इति बोध्यम् । व्यवधानेनेति ।। ‘नास्ति बुद्धिरयुक्तस्य’इति वक्ष्यमाण-व्यवधानेनेत्यर्थः । ततः कथमिति ।। अव्याकुलत्वाख्यप्रसादस्येन्द्रियजयफलत्वं कथम् । अनायासेनाभिलषितविषयोपनतिफलत्वात् ज्ञानसाधनत्वं च कथम्?। विषयोपनतिजन्य-व्याकुलत्वस्य ज्ञानसाधनत्वविरोधादित्यर्थः ।। ६५ ।।