न मे विदुस्सुरगणाः प्रभवं न महर्षयः । अहमादिर्हि देवानां महर्षीणां च सर्वशः ।। २ ।।
न मे विदुस्सुरगणाः प्रभवं न महर्षयः ।
अहमादिर्हि देवानां महर्षीणां च सर्वशः ।। २ ।।
भाष्यम्
प्रभवं प्रभावम् । मदीयां जगदुत्पत्तिं वा । तद्वशत्वात् तस्य इत्युच्यते । यद्यस्ति तर्हि देवादयोऽपि जानन्ति सर्वज्ञत्वात् । अतो नास्तीति भावः । अहमादिर्हि इति तु उत्पत्तिरपि यस्य वशा कुतस्तस्य जनिरिति ज्ञापनार्थम् । ‘अहं सर्वस्य जगतः प्रभवः प्रलयः’ इति चोक्तम् ।।
भावप्रदीपिका न मे विदुः सुरगणाः प्रभवम् इति प्रभवशब्दं त्रेधा व्याचष्टे– प्रभवमिति ।। मदीयामुत्पत्तिं जगदुत्पत्त्यर्थम् । मे इत्यस्य कः सम्बन्धः ? इत्यत आह– तद्वशत्वादिति ।। नन्वीश्वरोत्पत्तेरज्ञातत्वेनासत्त्वम्, तर्हि तत्प्रभावजग-दुत्पत्त्योरसत्त्वं स्यादित्यत आह– अहं सर्वस्येति ।। जगत्सृष्ट्यादिप्रभावस्य जगदुत्प-त्तेश्च प्रामाणिकत्वान्नासत्त्वम्, किन्तु साकल्येनाज्ञातत्वमेवेत्यर्थः ।
प्रमेयदीपिका
प्रभवशब्दः केनचित् सामर्थ्यमात्रवाचित्वेन व्याख्यातः । अन्येन तु भगवदुत्पत्तिवाचित्वेन । तदुभयमङ्गीकुर्वन्नधिकमपि विवक्षुराह– प्रभव-मिति ।। मदीयाम् उत्पत्तिमिति सम्बन्धः । जगदुत्पत्तिः ‘मे’ इति कथं विशेष्यते? इत्यत आह– तदिति ।। ‘जगदुत्पत्तिः’ इति वर्तते । एवं तर्हि भगवत्प्रभाववज्जग-दुत्पत्तिवच्च भगवदुत्पत्तिरस्त्येव । किन्तु दुर्ज्ञानैव इत्यापन्नमित्यत आह– यदीति ।। भगवदुत्पत्तिरिति शेषः । सर्वज्ञत्वात् ‘सामान्यतः’ इति शेषः । ततः परं ‘नच सामान्यतोऽपि जानन्ति’ इत्यध्याहारः । अतः सर्वथाऽनुपलम्भात् । प्रभावादिकं तु विशेषत एव न जानन्ति न तु सामान्यतोऽपीति भावः ।।
ननु भगवदुत्पत्तेरभावश्चेदत्राभिप्रेतस्तदा ‘अहमादिर्हि’ इति हेतुवचनं न सङ्गच्छते । अत्र हि देवादयो अर्वाक्तना मया सृष्टाः कथं पूर्वतनीमुत्पत्तिं जानीयुरिति प्रतीयत इत्यत आह– अहमिति ।। अपिशब्दोऽध्याहृतेन ‘सर्वस्य’ इत्यनेन सम्बद्ध्यते । कुतः? जनकात् । नन्वत्र सर्वस्याप्युत्पत्तिः भगवदधीनेति नोच्यते । किन्तु देवादीनामेव । तत्कथमनेन कारणाभावः सिद्ध्यति? इति चेन्न । देवादिशब्दस्योप-लक्षणार्थत्वात् । तत्कुतः? इत्यत आह– अहमिति ।।
भावबोधः
।। म इति कथं विशेष्यत इति ।। यदि भगवत्सम्बन्धि-प्रभवोत्पत्त्योरिव जगदुत्पत्तेरपि प्रभवशब्दार्थत्वं, कथं तर्हि जगत्सम्बन्धिन्याः गीतायां म इति स्वसम्बन्धित्ववचनमित्यर्थः ।
भावदीपः
।। अधिकमपीति ।। जगदुत्पत्तिरूपमित्यर्थः ।। ‘मे’ ‘प्रभवम्’ इति गीतापदयोरर्थतोऽनुवादः ‘जगदुत्पत्तिं मदीयाम्’ इति ।।
भावरत्नकोशः
।। भगवदुत्पत्तीति ।। ‘प्रकर्षेण भवः उत्पत्तिः प्रभवः’ इति ‘भवः संसारजन्मनोः’ इत्यभिधानानुरोधेन भगवदुत्पत्तिवाचित्वेन व्याख्यात इत्यर्थः । अधिक-मिति ।। जगदुत्पत्तिरूपम् अधिकमप्यर्थमित्यर्थः । प्रभवशब्दस्य प्रभावार्थकत्वं ‘प्रभवं प्रभावं प्रभुशक्त्यतिशयम्’ इति परभाष्येऽप्युक्तम् । ‘मदीयाम्’ इत्यस्य विशेष्याकाङ्क्षायाम् ‘जग-दुत्पत्तिम्’ इति समासान्तर्गतम् उत्पत्तिपदं योजनीयमिति भावेनाह– उत्पत्तिमिति सम्बन्ध इति ।। विशेष्यत इति ।। गीतायाम् । ‘जगदुत्पत्तिम्’ इति पदं विभक्तिविपरिणामेन इह ‘उच्यते’ इत्यत्र कर्मसमर्पकतया संयोज्यमिति भावेनाह– जगदुत्पत्तिरिति वर्तत इति ।। प्रथमान्ततयाऽनुवर्तत इत्यर्थः । अनेन भाष्ये तदीयत्वात् तच्छब्दोपात्तमत्स्वामिकत्वात् तस्य ‘मे’ इत्युच्यते जगदुत्पत्तिः इत्यक्षरार्थो ज्ञातव्य इत्युक्तं भवति । एवं तर्हि यदि प्रभवशब्दस्य अर्थत्रयमभिसंहितम् । ‘एवम्’ इत्यतः पूर्वम् ‘यदि’ इति शेष इत्यप्याहुः । इत्यापन्नमिति ।। समानन्यायत्वादिति भावः । ‘अस्ति’ इत्याख्यातोपात्तकर्तृसमर्पणायोक्तम्– भगवदुत्पत्तिरिति शेष इति ।। यदि सद्भावमात्रेण देवादिज्ञानगोचरत्वापादनं तर्हि प्रभावादेः ‘गुणाः श्रुताः सुविरुद्धाश्च देेवे सन्त्यश्रुता अपि’ इत्यादिशास्त्रावेदितगुणविशेषस्य च ज्ञानं मयि स्यात् । तच्च न सम्मतम् इत्यत आह– सामान्यत इति शेष इति ।। भाष्ये ‘जानन्ति’ इत्यस्य आपाद्यतास्फोरणाय ‘जानीयुः’ इत्यर्थो ज्ञेयः । आपाद्यस्य विपर्यये पर्यवसानं तर्काङ्गमिति तदध्याहरति– ततः परमिति ।। ‘सर्वज्ञत्वात्’ इत्यतः परमित्यर्थः । ‘अतः’ इति भाष्यानुवादः, ‘सर्वथाऽनुपलम्भात्’ इति व्याख्या । तर्हि प्रभावादीनामप्यनुपलम्भात् नास्तित्वं स्यादिति कृतचोद्यं भाष्यभावोक्त्या परिहरति– प्रभावादिकं त्विति ।। तथाच न तत्समानन्यायतेति हृदयम् । अत्र ‘अहमादिः’ इति वाक्ये । कुतः इत्यनुवादः ‘जनकात्’ इति व्याख्या ।
अनेन देवानाम् ऋषीणां च कारणत्वमात्रेण । देवादिशब्दस्य देवशब्दस्य महर्षिशब्दस्य च सर्वोपलक्षणत्वादित्यर्थः । ‘देवानां महर्षीणां चाहमादिः, किमु वक्तव्यम् अन्येषामादिरितीति कैमुत्यद्योतनाय सर्वोपलक्षकपदोपादानम्’ इति न्यायदीपिकात अवसेयम् । वक्ष्यति च ‘न तत्प्रभावम् ऋषयश्च देवा विदुः कुतोऽन्येऽल्पधृतिप्रमाणाः’ इति कैमुत्यं भाष्ये ।
प्रतिज्ञातो महिमोच्यते– न मे विदुरिति ।। मे मम प्रभवं प्रभावम्, सामर्थ्यशब्दितं महिमानम् । यद्वा प्रकृष्टो भवः प्रभवः ‘भवः संसारजन्मनोः’ इत्यभिधानात् जन्म तत् मे मदीयं ‘जगतः’ इति शेषः । मदधीनां जगदुत्पत्तिं सुरगणा न विदुः न जानन्ति । महर्षयः मरीच्याद्याश्च न विदुः । ‘ज्योतिषि भावाच्च’ इत्यादिशास्त्रावेदितसर्वज्ञभावा अपि देवादयः सामान्यतो जानन्तोऽपि विशेषतो न जानन्ति । देवानां महर्षीणां चाज्ञाने अन्येषां तत्सुतरा-मिति द्योतयितुं ‘सुरगणाः’ ‘महर्षयः’ इति पदं सर्वोपलक्षकमुपात्तम् । अथवा मे प्रभवं ममोत्पत्तिं देवादयः सामान्यतोऽपि न विदुः । कुतः ? अभावादेव । अभावे हेतुरयमुच्यते– अहमादिरिति ।। देवानां महर्षीणां च सर्वशः सर्वेण प्रकारेण आदिः उत्पत्तिः अहम् । यदाहुः ‘कृष्ण एव हि लोकानामुत्पत्तिरपि चाव्ययः’ इति । तदधीनत्वात् ताच्छब्द्यम्, मदधीना । अहमादिः कारणमिति वा । देवमहर्ष्यादिरूपस्य सर्वस्यापि जगतः उत्पत्तिर्यदधीना तस्य कुतो जनकादुत्पत्तिः ? यदि च मत्प्रभावाज्जगदुत्पत्तिवच्च ममापि प्रभवः सन् स्यात् तर्हि तं देवादयः सामान्यतो जानीयुः । तेषां सामान्यतः सर्वज्ञत्वात् । अतः सर्वथाऽनुपलम्भात् स नास्तीति निश्चीयत इति भावः ।। २ ।।
भावदीपिका
।। विवक्षुरिति ।। ‘जगदुत्पत्तिं वा’ इत्यनेनेत्यर्थः । मदीयामिति ।। तथाच ‘मे प्रभवं मदीयामुत्पत्तिं न विदुः’, तथा ‘मे प्रभवं जगदुत्पत्तिं च न विदुः’ इत्यर्थो द्रष्टव्यः । म इतीति ।। जगत्सम्बन्धिन्या उत्पत्तेः ‘मे’ इति स्वसम्बन्धित्वं कथमुच्यत इत्यर्थः । भाष्ये ‘तस्य’ इत्युच्यते ‘मे’ इत्यनेनेत्यर्थः । दुर्ज्ञानैवेत्यापन्नमिति ।। दुर्ज्ञाना इत्येवापन्नम्, न त्वभाव इत्यर्थः । सर्वथेति ।। विशेषतः सामान्यतश्चेत्यर्थः । योग्यानुपलब्धेरभावग्राहकत्वादिति भावः । ‘प्रभावादिकम्’ इत्यादिपदेन भगवदीयजगदुत्पत्ति-ग्रहणम् । नन्विति ।। सामान्यतस्तज्ज्ञानस्य सत्त्वादिति भावः । अध्याहृतेनेति ।। तथा च ‘सर्वस्याप्युत्पत्तिर्यस्य वशा’ इति सम्बन्धो द्रष्टव्यः । अस्य सर्वस्यापीति ।। देवादि-व्यतिरिक्तप्रपञ्चस्यापीत्यर्थः । तत्कथमिति ।। तथा च देवादीनां कारणत्वायोगेऽपि तद्व्यति-रिक्तस्य जगतो भगवज्जनकत्वमस्त्विति भावः ।।
भावप्रकाशः
ननु परोक्तार्थयोरेकस्याङ्गीकारो भाष्ये प्रतीयते । नतु द्वितीयस्येत्यत आह– मदीयामिति ।। तथा च मदीयामिति सम्बन्धे परोक्तद्वितीयार्थाङ्गीकार-लाभः । मदीयां जगदुत्पत्तिमिति सम्बन्धे त्वधिकोक्तिरपि लभ्यत इति भावः । म इति कथं विशेष्यत इति ।। मे प्रभव इति गीतायां मदीयां जगदुत्पत्तिमिति सम्बन्धे त्वधिकार्थोक्तेरय-माक्षेपः । विपर्ययपर्यवसानस्य तर्काङ्गत्वात् तदध्याहरति– ततः परमिति ।। प्रभवादावप्येवं तर्कप्रवृत्तौ तदभावोऽपि स्यादित्यतो वैषम्यमाह– प्रभावादिकमिति ।।