एवं प्रवर्तितं चक्रं नानुवर्तयतीह यः । अघायुरिन्द्रियारामो मोघं पार्थ स जीवति ।। १६ ।।

एवं प्रवर्तितं चक्रं नानुवर्तयतीह यः ।

अघायुरिन्द्रियारामो मोघं पार्थ स जीवति ।। १६ ।।

भाष्यम्

तदेतज्जगच्चक्रं यो नानुवर्तयति स तद्विनाशकत्वाद् अघायुः । पाप-निमित्तमेव यस्याऽयुः सः अघायुः ।। १६ ।।

भावप्रदीपिका

‘एवं प्रवर्तितम्’ इति श्लोकं व्याचष्टे– तदेतदिति ।।१६।।

भावप्रकाशिका

उक्तोपयोगस्य प्रकृतोपयोगं दर्शयन् श्लोकं व्याचष्टे– तदेतदिति ।। पापस्य निमित्तम्, पापं निमित्तमस्येति चेत्यर्थः ।। १६ ।।

प्रमेयदीपिका

चक्राप्रवृत्तौ कथमघायुष्ट्वादिकम्? इत्यतो व्याचष्टे– तदेत-दिति ।। आयुषोऽघत्वाभावात् कथमघायुः? इत्यत आह– पापेति ।। तादर्थ्यात् ताच्छब्द्यमित्यर्थः ।। १६ ।।

भावरत्नकोशः

।। तद्विनाशकत्वात् जगच्चक्रविनाशकत्वेन विश्वहन्तृत्वादिति भाष्यार्थः । तादर्थ्यादिति ।। आयुषोऽघार्थत्वात् पापफलकत्वात् पापवाचकाघशब्देन विशेषण-मुपपद्यत इति ताच्छब्द्यम् । स शब्दो यस्य तत् तच्छब्दं, तस्य भावस्ताच्छब्द्यम् । तच्छब्दार्थत्वमित्यर्थः ।। १६ ।।

गीताक्षरार्थस्तु– एवं पुरातनैर्भगवतैव वा प्राणिनामिष्टसिद्धये प्रवर्तितं जगच्चक्रम् इह अधिकृतलोके यो नानुवर्तयति नानुतिष्ठतीति यावत्, सः अघायुः तादर्थ्यात् ताच्छब्द्यम् । विश्वस्य चक्रेऽन्तर्भावात्, कर्माकरणेन चक्राप्रवर्तनाद्, विश्वविनाशकतया विश्वहन्तृत्वाद् अघनिमित्तम् आयुः जीवनमस्येति तथा । इन्द्रियारामः इन्द्रियैरारामो रमणं विषयेषु यस्य स तथा । इन्द्रियैः आ समन्ताद् रामो रमणं विषयेषु यस्य स तथेति वा । हे पार्थ मोघं वृथा जीवति स्वजीवनं नरकपातहेतुं वहतीति । संन्यासिनामपि तात्पर्ये यज्ञदानाद्यस्तीत्युक्तत्वान्न आश्रमान्तरविरोधः ।। १६ ।।

भावदीपिका

।। कथमघायुरिति ।। सामानाधिकरण्यं कथमित्यर्थः । ननु कथमनेन सामानाधिकरण्योपपत्तिः? इत्यत आह– तादर्थ्यादिति ।। आयुषोऽघसाधनत्वात् ताच्छब्द्यम् अघशब्दवाच्यत्वम् । ‘आयुर्वै घृतम्’ इत्यादिप्रयोगदर्शनादित्यर्थः । अयमत्र चक्रप्रकारः । आदौ भूतानि प्राणिजातानि अन्नाज्जायन्ते, तेन तेषां बलोपचयात् । तदन्नं पर्जन्याज्जायते । स च पर्जन्यो यज्ञात् । आदित्याभिप्राये बलाभिवृद्धेः, मेघसन्तत्यभिप्राये च वार्षुकत्वादिविशिष्टमेघानां यज्ञेन जननात् । स च यज्ञः कर्मणो जायते । तच्च कर्म परब्रह्मणः । तच्च परं ब्रह्म वेदरूपाक्षराभिव्यङ्ग्यत्वात् तज्जातमित्युच्यते । तानि चाक्षराणि भूतेभ्यो जायन्ते, सम्यगन्नादिनाऽभिवृद्धबलैर्हि भूतैरुच्चारणे कृते वेदाख्याक्षराणि व्यज्यन्ते । तानि च भूतानि पुनरन्नाद् इत्येवं भूत-अन्न-पर्जन्य-यज्ञ-कर्म-परब्रह्म-वेदानां कार्यकारणभावेन पुनः पुनः परिवर्तनाच्चक्रं द्रष्टव्यम् । भाष्ये – नित्यं यज्ञे प्रतिष्ठितमिति ।। तथा चैवं स्ववर्णाश्रमोचित-यज्ञादिकर्माकरणे चक्रविघातप्रसक्त्या पापप्राप्तेः पूर्वैरेवं यज्ञादिकरणेन चक्रस्यानुवर्तितत्वाच्चावश्यं स्वस्ववर्णाश्रमोचितं कर्म कार्यमित्येवं स्वस्ववर्णाश्रमोचितकर्मणः कर्तव्यत्वेऽनेन निन्दा-रूपोऽर्थवाद उक्तो भवतीत्याशयः ।। १६ ।।

भावप्रकाशः

तादर्थ्यादिति ।। आयुषः पापफलकत्वात् पापवाचकाघशब्द-प्रतिपाद्यत्वं लाङ्गलं जीवनमितिवदित्यर्थः ।