तच्च संस्मृत्य संस्मृत्य रूपमत्यद्भुतं हरेः । विस्मयो मे महान् राजन् हृष्यामि च पुनः पुनः ।। ७७ ।।

तच्च संस्मृत्य संस्मृत्य रूपमत्यद्भुतं हरेः ।

विस्मयो मे महान् राजन् हृष्यामि च पुनः पुनः ।। ७७ ।।

भावरत्नकोशः

गीताक्षरार्थस्तु- किञ्च श्रुतार्थस्मरणजनितहर्षादपि दृष्टार्थ-स्मरणजन्यो हर्षो ह्यतिशयितः, तं चानुभवामीत्युच्यते– तच्चेति ।। हरेः श्रीकृष्णस्य अत्यद्भुतम् अत्याश्चर्यकरं तद् विश्वरूपसन्दर्शनकाले स्वयोग्यताऽनुसारेण दृष्टं रूपं च संस्मृत्य हे राजन् धृतराष्ट्र मे मम महान् विस्मयः अनुभूयते । ततो मुहुर्मुहुः हृष्यामि ।। ७७ ।।