यदि ह्यहं न वर्तेयं जातु कर्मण्यतन्द्रितः । मम वर्त्मानुवर्तन्ते मनुष्याः पार्थ सर्वशः ।। २३ ।।

यदि ह्यहं न वर्तेयं जातु कर्मण्यतन्द्रितः ।

मम वर्त्मानुवर्तन्ते मनुष्याः पार्थ सर्वशः ।। २३ ।।

गीताक्षरार्थस्तु– जातु कदाचित् अतन्द्रितः अनलसः वर्त्म मार्गं सर्वशः सर्वैः प्रकारैः अनुवर्तन्ते अनुसरेयुः ।। २३ ।।