सत्त्वात् सञ्जायते ज्ञानं रजसो लोभ एव च । प्रमादमोहौ तमसो भवतोऽज्ञानमेव च ।। १७ ।।

सत्त्वात् सञ्जायते ज्ञानं रजसो लोभ एव च ।

प्रमादमोहौ तमसो भवतोऽज्ञानमेव च ।। १७ ।।

भावरत्नकोशः

गीताक्षरार्थस्तु सत्त्वादिगुणफलं शृङ्गिग्राहिकया प्रदर्श्यते– सत्त्वादिति ।। स्थूलाल्लौकिकम्, सूक्ष्मात् परमेश्वरविषयं ज्ञानं सम्यग् जायते । लोभः स्वर्गादिविषयासक्तिः तदा दुःखमिश्रं सुखं च । तमसस्तु प्रमादमोहौ भवतः, अज्ञानं च भवति

।। १७ ।।