तत् क्षेत्रं यच्च यादृक्च यद्विकारि यतश्च यत् । स च यो यत्प्रभावश्च तत्समासेन मे शृणु ।। ४ ।।

तत् क्षेत्रं यच्च यादृक्च यद्विकारि यतश्च यत् ।

स च यो यत्प्रभावश्च तत्समासेन मे शृणु ।। ४ ।।

भावरत्नकोशः

गीताक्षरार्थस्तु– क्षेत्रादिस्वरूपं श्रावयितुं प्रतिज्ञायते– तत्क्षेत्रमिति ।। यत् निर्दिष्टमिदं शरीरमिति तत्क्षेत्रं यत् यत्स्वरूपं यादृक् यादृशं धर्मैः यत्प्रकारम् । चशब्दः समुच्चयार्थः । यश्चासौ विकारश्च यद्विकारः, सोऽस्यास्तीति यद्विकारि येन विकारेण युक्तम्, यतश्च यादृशप्रवृत्त्यनुकूलधर्मवतः पुरुषात्, यस्य प्रेरणयेति यावत् । यत् एति गच्छतीति यत्’ इति इणो लडादेशशत्रन्तस्य रूपम् प्रवर्तत इति यावत् । स च प्रवर्तकः यो यत्स्वरूपः यत्प्रभावश्च यादृशप्रवृत्त्यनुकूलसामर्थ्येतरधर्मयुक्तः तत् सर्वं समासेन सङ्क्षेपेण मे सकाशात् शृणु । श्रुत्वा तत्र निष्ठां कुरु ।। ४ ।।

भाष्यम्

यद्विकारि येन विकारेण युक्तम् । यतश्च यत् यतो याति प्रवर्तते ।

भावप्रदीपिका

यद्विकारि इति भिन्नपदत्वशङ्कानिरासाय व्याचष्टे– यदिति । तत्र क्षेत्रं यच्च इत्यनेनागतार्थतया यतश्च यत् इति व्याचष्टे– यतश्चेति ।

प्रमेयदीपिका

‘यो विकारो यस्य तद् यद्विकारि’ इति कश्चित् । तदसत् । बहुव्रीहितायामिनेः वैयर्थ्यात्। किन्तु यश्चासौ विकारश्चेति यद्विकारः । सोऽस्यास्तीति यद्विकारीति भावेनाऽह– यदिति ।। अत्र येन विकारेणेत्यनेन कर्मधारयं सूचयति । युक्तमिति इनेरर्थम् ।।

यतश्च यत्’ इत्येतद् ‘यस्माच्च यत् कार्यमुत्पद्यते’ इति कश्चिद्व्याख्यातवान्। तदयुक्तम् । ‘यद् विकारि’ इत्यनेन गतार्थत्वात् । साध्याहारत्वाच्च । ‘विकारांश्च गुणांश्च’ (१३.२०) इत्यस्यान्यथोपपत्तेः ।। अपरस्तु ‘यतश्चामानित्वादिभ्यो यज्ज्ञेयं प्राप्यत इति । तदप्यसत् । अध्याहारादेव । ‘अमानित्वम्’ (१३.८) इत्यादेः ‘अनादिमत्’ (१३.१३) इत्यादेश्चान्यथासिद्धेः’ इति भावेनान्यथा व्याचष्टे– यतश्चेति ।। यतः यस्य प्रेरणया । ‘यत्’ इति इणो लडादेशशत्रन्तस्य रूपम् । इणो यातेश्चानतिभिन्नार्थत्वात् ‘याति’ इत्युक्तम् । सर्वस्य क्षेत्रस्य गत्यभावाद् गौणीं वृत्तिमाश्रित्य विवृणोति– प्रवर्तत इति ।।

भावबोधः

।। यद्धिकारीत्यनेनेति ।। कार्यस्यैव विकारत्वेन यत्कार्यजनकम् इत्यर्थकेन यद्विकारीत्यनेनैव यतः क्षेत्रादिकार्यमुत्पद्यते इत्यर्थस्यावगमादित्यर्थः । साध्याहार-त्वाच्चेति ।। उत्पद्यत इति गीतायामश्रवणादिति भावः ।

प्रकारान्तरेणेति ।। ‘स्तुतिः’ इति पूर्वं स्तावकत्वरूपेणैकेन प्रकारेण ‘ध्यानात् कर्मफलत्यागः’ इति वचनं व्याख्यातम् । इदानीमन्येनापि ‘केवलात्् त्यागरहिताद् ध्यानात्् त्यागः ध्यानयुक्तत्यागोऽधिकः’ इति प्रकारेण व्याख्यातीत्यर्थः । नन्वेवमव्याख्याने ‘अमानि-त्वम्’ इत्यादेर्ज्ञानसाधनवचनस्य ‘अनादिमत्’ इत्यादेर्ज्ञेयवचनस्य चाप्रतिज्ञातत्वोक्तित्वं स्यादित्यत आह– अमानित्वमित्यादेरिति ।। ‘ अनादिमत्’ इत्यादेः ‘परं ब्रह्मेति स च इति प्रतिज्ञातमुच्यते ‘अन्यद्यत्प्रभाव’ इत्युत्तरभाष्यरीत्या साक्षात्प्रतिज्ञावचनत्वेन ‘अमानित्वम्’ इत्यादेस्तु परब्रह्मज्ञानं प्रत्यवश्यकसाधनत्वेन प्रतिज्ञातोपयुक्तवचनत्वेनान्यथासिद्धेरित्यर्थः । प्रेरणयेति ।। यतः परमेश्वरानुमतेरिदं याति, प्रवर्तते । अनुलक्ष्य मतिः अनुमतिः प्रेरणारूपेति तात्पर्यं मनसि निधायैवमुक्तमिति ज्ञातव्यम् । इण इति ।। यातीति भाष्यानुसारेण लडादेश इत्युक्तम् । ततश्च इ अदिति स्थिते इणो यणिति यणादेशे यदिति रूपमित्यर्थः ।

ननु यत् इत्यस्येणो रूपत्वे भाष्ये एतीति वक्तव्यम् । यातीति कथमुक्तमित्यत आह – इणो यातेश्चेति ।। अर्थकथनमात्रमेतत् । न तूपपदमिति भावः । ननु यातीत्यस्य स्पष्टार्थ-त्वात् प्रवर्तते इति विवरणं किमर्थमित्यत आह – सर्वस्येति ।। गौणीमिति ।। गमन-शून्यस्याव्याकृताकाशादेः कार्योन्मुखत्वाख्यस्य प्रवृत्तिरूपगुणयोगादित्यर्थः । ननु ‘यतश्च यत् उत्पद्यते’ इत्यव्याख्याने ‘विकारांश्च गुणाश्चैव विद्धि प्रकृतिसम्भवान्’ इत्यप्रतिज्ञातोक्तिः स्यात् । अतस्तदनुरोधेनोत्पद्यते इत्यध्याहारोऽपि कर्तव्य इत्यत आह – विकारांश्चेति ।। ‘यादृक्’ इति प्रतिज्ञातवचनत्वेन ‘यतश्च यत्’ इति प्रतिज्ञातप्रेरकस्वरूपनिरूपणोपयोगिसविकार-प्रेर्यनिरूपणत्वेन चान्यथोपपत्तेरित्यर्थः । अपरस्त्विति ।। यतः साधनेभ्यः यत् ज्ञेयं वस्तु इति प्रतिज्ञाद्वयं ‘यज्ज्ञात्वाऽमृतमश्नुते’ इति गीतानुसारेण ज्ञानद्वारा प्राप्यत इत्युक्तमिति ज्ञातव्यम् । अध्याहारादेवेति ।। ज्ञेयं प्राप्यत इति पदद्वयस्येत्यर्थः ।

भावदीपः

।। इनेरिति ।। ‘अत इनिठनौ’ इति मत्वर्थे विहित ‘इनि’-प्रत्ययस्य वैय्यर्थ्यादिति भावः ।। इत्यनेन गतार्थत्वादिति ।। विकारशब्दितकार्यवत्वस्य यद्विकारिपदेन प्राप्तत्वात् ‘तत् क्षेत्रम्’ इत्यनूद्य ‘अनुत्पद्यते’ इत्यनेनापि कार्यवत्वस्यैव प्राप्त्या ‘उत्पद्यते’ इति क्रियाध्याहाराच्चेत्यर्थः ।। ननु विकारांश्च गुणांश्चैव विद्धि प्रकृतिसम्भवान् इत्यग्रे सत्वादिगुणानां कार्यत्वे पुंविकाराणां पृथगुक्तेरिहापि उक्तव्यत्यासेन पौनरुक्त्यमित्यत आह– इत्यस्यान्यथोपपत्तेरिति ।। ‘तेषामत्यल्पोपि विशेषो लयात्सर्गः’ इति विशेषोक्तिः ।।

नन्वेवं प्रतिज्ञावाक्यानुक्तामानित्वादिसाधनोक्तिः,‘अनादिमत्परं ब्रह्म’ इति ज्ञेयोक्तिः ‘यज्ज्ञात्वा अमृतमश्नुते’ इति प्राप्त्युक्तिश्च अग्रेतना कथं स्यात्? इत्यत आह अमानित्व-मिति ।। नच ‘यो यत्प्रभावश्च’इति वक्तुम् ’इत्यादिभाष्यदिशेति भावः ।। ननु ज्ञानमेव भगवद्विषयकं संसारनाशकं च, नतु? ‘ये तु सर्वाणि’ इत्यादिना प्रागुक्तं भवति ।। इणो लडादेशशत्रन्तस्येति ।। ‘इणो यण्’ इति यणादेशे ‘यत्’ इति रूपम् । यातेरेव रूपत्वे ‘यात्’ इति स्यादिति भावः ।। गत्यभावादिति ।। प्रकृत्यादेः गतिशून्यत्वेऽपि परिणामो-न्मुखत्वादिरूपप्रवृत्तिस्तु सम्भवतीति भावः ।।

वाक्यार्थप्रदीपः

।। बहुव्रीहितायामिनेः वैयर्थ्यादिति ।। यो विकोरो यस्येति बहुव्रीहिणैव मत्वर्थस्य लाभात् तदर्थकेनिप्रत्ययवैयर्थ्यादित्यर्थः ।। किन्त्विति ।। तथाच बहुव्रीहिमाश्रित्य मतुबर्थप्रत्यययोगे वैयर्थ्यदोषप्राप्तावपि कर्मधारयमाश्रित्य मतुबर्थप्रयोगे शब्दान्तरत्वान्न दोष इत्याशयः ।। नच कर्मधारयमत्वर्थीयात् बहुव्रीहेरेवेष्टो लघुत्वात् इति न्यायात् शब्दान्तरत्वाश्रयणेपि बहुव्रीहिविववक्षया अल्पेनाभिमतार्थप्रतिपादनसम्भवेन बहुयत्ना-श्रयणे दोषः स्यादेवेति वाच्यम् । बहुव्रीह्यपेक्षया कर्मधारयमत्वर्थीयशब्दगौणस्थले बहुयत्ना-श्रयणस्य दोषत्वेपि शब्दसाम्ये तददोषत्वस्य अनादिमदित्यस्य वक्ष्यमाणत्वादितिभावः ।। इणो लडादेशशत्रन्तस्येति ।। ततश्च इणो लटि तस्य शतरि इ अत् इति स्थिते इको यणचीति यणि यदिति रूपसिद्धिरित्यर्थः ।।

भावरत्नकोशः

।। कश्चित् शङ्करः । रामानुजोऽपि ‘यद्विकारि’ इत्यनूद्य ‘ये चास्य विकाराः’ इति भाषमाणस्तदनुयाय्येव । इन इति ।। ‘अत इनिठनौ’ इति शास्त्र-प्राप्तस्येनिप्रत्ययस्येत्यर्थः । बहुव्रीहिणैव विकारसम्बन्धावगमसम्भवादिति भावः । एकदेशि-नैकाधिकरणे इति निर्देशात् ‘लोहितशालिमान् ग्रामः’ इत्यादिनिदर्शनाच्च ‘न कर्मधारयात् मत्वर्थीयः प्रत्ययः’ इति वचनमनादरणीयमिति भावेनाह– यश्चासौ विकारश्चेति ।। स्वोक्तविग्रहादिकं भाष्याभिमतमित्याह– अत्रेति ।। परभाष्यमनुवदति– यस्माच्चेति ।। गतार्थत्वादिति ।। विकारस्यैव कार्यशब्दार्थत्वादिति भावः । साध्याहारत्वात् यतश्च यत् इत्यत्र ‘यस्माच्च यत् कार्यमुत्पद्यते’ इति व्याख्यानाभ्युपगमे ‘उत्पद्यते’ इति शङ्करेण, उत्पन्नम् इति रामानुजेन अश्रुतपदस्य संयोजनाच्चायुक्तमित्यन्वयः ।

ननु ‘विकारांश्च गुणांश्चैव विद्धि प्रकृतिसम्भवान्’ इत्युपरितनवाक्यं पूर्वप्रतिज्ञातोक्तिरूपं वक्तव्यम् । तत्र च सम्भवश्रवणादिहापि ‘उत्पद्यते’ इति पदमध्याहर्तव्यमेव । अन्यथा अप्रतिज्ञातोक्तित्वं स्यात् इत्यत आह– विकारांश्च गुणांश्चेत्यस्येति ।। ‘यतश्च यत् इति प्रतिज्ञातं प्रेरकस्वरूपं वक्तुं प्रेर्यं यत् सप्रकारं क्षेत्रं तन्निरूपकत्वेन, ‘यादृक्’ इति प्रति-ज्ञातवचनत्वेन च प्रवृत्तं तद्वाक्यम् इत्यन्यथोपपत्तेर्न तस्याध्याहरकल्पकत्वमिति भावः ।

अध्याहारादेवेति ।। ‘प्राप्यते’ इति पदाध्याहारादेवेत्यर्थः । ननु ‘यतश्चामानित्वादिभ्यो यद् ज्ञेयं प्राप्यते’ इति प्रतिज्ञावाक्यव्याख्यानानभ्युपगमे ‘अमानित्वम्’ इत्यादिसाधनोक्तिः, ‘अनादिमत्परं ब्रह्म इति ज्ञेयोक्तिः,‘यज्ज्ञात्वाऽमृतमश्नुते’ इति प्राप्त्युक्तिश्चाप्रतिज्ञातोक्तिः स्यात् इत्यत आह– अमानित्वमित्यादेरिति ।। ‘अमानित्वमदम्भित्वम्’ इत्यादिवाक्यस्य साक्षा-त्परब्रह्मज्ञानं प्रत्यावश्यकसाधनप्रतिपादकतया प्रतिज्ञातोपयुक्तवचनत्वस्य,‘अनादिमत्परं ब्रह्म इत्यादेः ‘स च यः’ इति साक्षात्प्रतिज्ञावचनत्वस्य च, ‘परं ब्रह्य’ इति ‘स च यः’ इति प्रतिज्ञातम् उच्यत इति, ‘अनादिमत्’ इत्यादिकं ‘यत्प्रभावः’ इति प्रतिज्ञातस्य प्रतिपादकमिति च वक्ष्यमाणभाष्यरीत्या अवगमेन प्रकारान्तरेण प्रतिज्ञातोक्तित्वस्योपपत्तेः, न तद्वचनस्य अपरव्याख्यानप्रत्यायकत्वमिति भावः ।।

यतः’ इति भाष्यानुवादः, ‘यस्य प्रेरणया इति व्याख्या । लडादेशशत्रन्तस्य लटः शतृशानचौ’ इति शास्त्रप्राप्तो लट आदेशो यः शता, तदन्तस्य । ननु ‘त्यजियजितनिभ्यो डित्’ इति शास्त्रविहितात्प्रत्ययान्ततया यजेर्न्निष्पन्नस्य ‘यत्’ इति सर्वनाम्नोऽर्थान्तरत्वात्कथं भाष्ये ‘याति’ इति तद्व्याख्यानम् इत्यत आह– यदितीण इति ।। ‘इण् गतौ’ इत्यस्माल्लटि तस्य लटः शतृशानचौ’ इति शत्रादेशे, शतुः अपित्त्वात् सार्वधातुकमपित्’ इति ङित्त्वात्, क्ङिति च’ इति गुणनिषेधे इयङ्बाधेन इणो यण् इति यणादेशे च ‘यत्’ इति रूपमित्यर्थः ।

ननु ‘यत् ’इत्यत्र इणो रूपत्वे ‘एति’ इति भाषणीयम्, ‘याति इति तु कथम् इत्यत आह– इणो यातेश्चेति ।। ‘या प्रापणे’ इति पाठेऽपि प्रापणस्य गतिविशेषत्वविवक्षया ऐक्यार्थ्यमभिसन्धायोक्तम्– अनतिभिन्नार्थत्वादिति ।। सर्वस्य सर्वान्तर्गतस्याव्याकृता-काशादेः । गौणीं वृत्तिमिति ।। अव्याकृताकाशभूताकाशादेः पूर्वदेशवियोगउत्तरदशसंयोग-समापादनीयपरिस्पन्दलक्षणगमनस्य अभावेऽपि, गमने तदितरव्यापारे च साधारणस्य कार्योन्मुखत्वप्राणिमार्गदत्वादिरूपप्रवृत्तिलक्षणस्य गुणस्य योगेन ‘यत्’ इति शब्दस्य क्षेत्रमात्रे प्रयोगो युक्त इति भावेन भाष्यकृत् तस्य गौणीवृत्तिमाश्रित्य प्रवर्तत इति ‘याति’ इत्यनेन विवक्षितं गमनं विवृणोतीत्यर्थः । भगवत्प्रेरणया तत्प्रवृत्तिशालित्वं क्षेत्रस्य सर्वसुबोधमिति ज्ञापनाय गौणशब्दोपादानमिति हृदयम् ।

भावदीपिका

।। वैयर्थ्यादिति ।। ‘न बहुव्रीहिनिर्वाह्ये भवन्ति मतुबादयः’ इति वचने आदिपदेन इनेरपि ग्रहणादिति भावः । कर्मधारयाद् इनिम् अभिप्रेत्याह– यश्चासाविति ।। यद्विकारीत्यनेनेति ।। कार्यस्यैव विकारत्वेन यत्कार्यजनकम् इत्यर्थकेन ‘यद्विकारि’ इत्यनेनैव ‘यतः क्षेत्राद् यत्कार्यमुत्पद्यते’ इत्यर्थस्यावगमादिति भावः । साध्याहार-त्वादिति । ‘उत्पद्यते’ इति गीतायाम् अश्रवणादिति भावः । ननु ‘यतश्च यदुत्पद्यते’ इत्यव्याख्याने ‘विकारांश्च गुणांश्चैव विद्धि प्रकृतिसम्भवान्’ इत्यप्रतिज्ञातोक्तिः स्यात् । अतस्तदनुरोधेन ‘उत्पद्यते’ इत्यध्याहारेण व्याख्यानं कर्तव्यम् इत्यत आह– विकारांश्चेति ।। ‘यादृक्’ इति प्रतिज्ञावचनत्वेन ‘यतश्च यत, स च’ इति प्रतिज्ञातप्रेरकस्वरूपनिरूपणोपयोगि-सप्रकारप्रेर्यनिरूपणत्वेन चान्यथोपपत्तेरित्यर्थः । अपरस्त्विति ।। यतः साधनेभ्यो यज्ज्ञेयं वस्तु इति प्रतिज्ञायाः ‘यज्ज्ञात्वाऽमृतमश्नुते’ इति गीतानुसारेण ‘ज्ञानद्वारा प्राप्यते’ इत्युत्तरमुच्यत इति ज्ञातव्यम् । अध्याहारादेवेति ।। ‘ज्ञेयं प्राप्यते’ इति पदद्वयस्येत्यर्थः ।

नन्वेवमव्याख्याने ‘अमानित्वम्’ इत्यादेः ज्ञानसाधनवचनस्य, ‘अनादिमत्’ इत्यादेः ज्ञेयवचनस्य अप्रतिज्ञातोक्तित्वं स्यात् इत्यत आह– अमानित्वमित्यादेरिति ।। ‘अनादिमत्’ इत्यादेः ‘परं ब्रह्म’ इति ‘स च यः’ इति प्रतिज्ञातमुच्यते, अन्यत् ‘यत्प्रभावः’ इत्युत्तरभाष्यरीत्या साक्षात्प्रतिज्ञातवचनत्वेन, ‘अमानित्वम्’ इत्यादेस्तु साक्षात्परब्रह्मज्ञानं प्रत्यावश्यकसाधनत्वेन प्रतिज्ञातोपयुक्तवचनत्वेनान्यथासिद्धेरित्यर्थः । यदिति इणो लडादेशस्य शत्रन्तस्य रूपमिति ।। भाष्ये ‘याति’ इति वर्तमानार्थकलट्प्रयोगात् ‘लडादेश’ इत्युक्तम् । तथा च ‘इण् गतौ’ इत्यस्माल्लटि तस्य परस्मैपदिनः शत्रादेशे शकारऋवर्णयोर्लोपे ‘अत् इति स्थिते ‘अचि श्नुधातुभ्रुवां य्वोरियङुवङौ’ इति सूत्रेण धात्विकारस्य प्राप्तेयङादेशापवादकत्वेन, ‘इणो यण्’ इणोऽङ्गस्य यणादेशः स्यादचि परे’ इति सूत्रेण, ‘यस्मात् प्रत्ययविधिः तदादि प्रत्ययेऽङ्गम्’ इत्यङ्गसंज्ञकस्य इकारस्य यणादेशे य् अत् यत् इति रूपमिति भावः । ननु ‘यत्’ इति इणो रूपं चेत्, इणो गत्यर्थकत्वाद् यातेश्च प्रापणार्थत्वाद् ‘याति’ इति प्रतिपदं कथं दत्तम्, ‘एति’ इति वक्तव्यत्वात्, इत्यत आह– इण इति ।। ननु इणो यातेश्चानति-भिन्नार्थकत्वे ‘याति’ इत्यस्य ‘गच्छति’ इत्यर्थस्य स्पष्टत्वात् ‘प्रवर्तते’ इति विवरणं किमर्थम् इत्यत आह– सर्वस्येति ।। गौणीमिति ।। गमनशून्याकाशादेः क्षेत्रस्य कार्योन्मुखत्वाख्य-प्रवृत्तिरूपगुणयोगादित्यर्थः ।

भावप्रकाशः

।। इनेर्वैयर्थ्यादिति ।। मत्यर्थे बहुव्रीहिरित्युक्तेः सम्बन्ध-बोधकबहुव्रीहिणैव मत्वर्थलाभादिति भावः । कर्मधारयमिति ।। न चैवमपि न कर्मधारया-न्मत्वर्थीयः’ इत्युक्तेरिनो वैयर्थ्यम् । यत्र स्पष्टप्रतिपत्तिरुद्देश्या तत्र कर्मधारयादपि मत्वर्थीयाङ्गी-कारात् ‘लोहितशालिमान् ग्रामः’ इत्यादिदर्शनादिति भावः । गतार्थत्वादिति ।। तस्य यत्कार्यजनकमित्यर्थे पर्यवसानादिति भावः । साध्याहारत्वाच्चेति ।। गीतायामुत्पद्यत इत्यश्रवणादिति भावः । ननु ‘यतश्च यत्’ इत्यस्य कार्यप्रतिज्ञात्वाभावे ‘विकारांश्च गुणांश्चैवेति विद्धि प्रकृतिसम्भवान् ’ इतीयमप्रतिज्ञातोक्तिः स्यादित्यत आह– विकारांश्चेति ।। ‘यतश्च यत्’ इति प्रतिज्ञातं प्रेरकस्वरूपं वक्तुं प्रेर्यं यत्सप्रकारकं क्षेत्रं तन्निरूपकत्वोपपत्तेरित्यर्थः । अध्याहारादेवेति ।। ज्ञेयं प्राप्यत इति पदद्वयस्येति शेषः ।

ननु यद्युक्तरीत्या ‘यतश्च’ इत्यादिप्रतिज्ञाद्वयं न स्यात् तर्हि ’अमानित्वम्’ इत्यादेः ‘अन•दिमत्’ इत्यादेश्चाप्रतिज्ञातोक्तित्वं स्यादित्याह– अमानित्यमित्यादेरिति ।। ‘अमानित्वम्’ इत्यादेः ज्ञानसाधनप्रतिपादकत्वस्यानादिमत्त्वादेश्च ‘स च यो यत्प्रभावश्च’ इति प्रतिज्ञातार्थे द्वयाभिधायकत्वस्य चोपपत्तेरित्यर्थः । ननु ‘यतो याति ’ इत्यस्य ‘स च यः’ इत्यनेन पुनरुक्तिरित्यतो व्याचष्टे– यस्य प्रेरणयेति ।। एतच्च स्फुटीकरिष्यते । ननु ‘यत्’ इत्यस्य सर्वनामत्वेनार्थान्तरपरत्वात् ‘याति’ इति कथं व्याख्यानमित्यत आह– यदितीति ।। इण् गतावित्यस्माल्लटि तस्य शत्रादेशे शतुरपित्सार्वधातुकत्वेन ङित्वाद्गुणनिषेधे इयङ्बाधेन इणो यणिति यणादेशे च यदिति रूपमिति भावः । ननु ‘यत्’ इत्यस्येणो रूपत्वे एतीति वाच्यम् । यातीति तु कथमित्यत आह– इणो यातेश्चेति ।। प्राप्त्यर्थानां गत्यर्थत्वेनाति-भिन्नार्थत्वाभावादित्यर्थः । गौणीमिति ।। प्रसिद्धार्थं परित्यज्यार्थान्तरपरत्वमाश्रित्येत्यर्थः । तेन धातूनामनेकार्थत्वात् कथमेतदिति निरस्तम् । एवं धर्मविशिष्टादिति ।। उपद्रष्टृत्वादि-विशिष्टादित्यर्थः ।। ४ ।।

Load More