अश्रद्दधानाः पुरुषा धर्मस्यास्य परन्तप । अप्राप्य मां निवर्तन्ते मृत्युसंसारवर्त्मनि ।। ३ ।।
अश्रद्दधानाः पुरुषा धर्मस्यास्य परन्तप ।
अप्राप्य मां निवर्तन्ते मृत्युसंसारवर्त्मनि ।। ३ ।।
भावरत्नकोशः
उक्तज्ञानस्यातिसुकरत्वे न कोऽपि संसारी स्यात् ? इत्यत उच्यते– अश्रद्दधाना इति ।। अस्य उपदिश्यमानस्य धर्मस्य जीवोद्धारकत्वेन धर्मशब्दार्थस्य ज्ञानस्य । ‘न लोक’ इति निषेधः कारकषष्ठीविषय इति, नेह सम्बन्धसामान्यषष्ठीविषये प्रवर्तते । अत एव ‘ब्राह्मणस्य कुर्वन्’ ‘नरकस्य जिष्णुः’ इत्यादिप्रयोगः । अश्रद्दधानाः अविश्वसन्त इमं धर्ममास्तिक्येन अस्वीकुर्वन्त इत्यर्थः । धर्मस्य स्वरूपे फले च श्रद्धारहिता इत्यपि केचित् । मामप्राप्य मृत्युसंसारवर्त्मनि मृत्युरूपसंसारमार्गे निवर्तन्ते नितरां वर्तन्ते । अप्राप्य मां निवर्तन्ते । न तूर्ध्वं गच्छन्ति । निवर्तमानाश्च न क्वापि जोषमासते । किन्तु ‘मृत्यु...’ इत्युक्तसंसारमार्गे परिभ्रमन्तीत्यपि आहुः । तस्मात् ज्ञानं श्रद्धेयमिति विभावितमिति
।। ३ ।।