विस्तरेणाऽत्मनो योगं विभूतिं च जनार्दन । भूयः कथय तृप्तिर्हि शृण्वतो नास्ति मेऽमृतम् ।। १८ ।।

विस्तरेणाऽत्मनो योगं विभूतिं च जनार्दन ।

भूयः कथय तृप्तिर्हि शृण्वतो नास्ति मेऽमृतम् ।। १८ ।।

भाष्यम्

न जायते अर्दयति च संसारमिति जनार्दनः । तथाच बाभ्रव्यशाखायां ‘स भूतः स जनार्दनः इति । स ह्यासीत् स नासीत् सोऽर्दयति’ इति ।। १८ ।।

भावप्रदीपिका जनार्दनशब्दार्थं सप्रमाणकमाह– न जायत इति ।।

प्रमेयदीपिका

‘अर्द गतौ याचने च’ इति वचनादासुरजनानां नरकादिगमयितृत्वात्, जनैर्याच्यत्वाद् वा जनार्दनः’ इति सङ्करः। तदप्रामाणिकं व्याख्यानम् । इदं तु श्रौतत्वादुपादेयमिति भावेनाऽह– न जायत इति ।। नञः परनिपातः । अत एव नलोपाभावः । उत्तरपदे तस्य स्मरणात् । अर्दयति गमयति । स ह्यासीदिति ।। भूतः अनादितः सत्तावानित्यर्थः । स नासीत् न जन्मवान् । सोऽर्दयति इति जनार्दनः ।। १८ ।।

भावबोधः

ननु न जायत इत्यादिव्युत्पत्तावजनार्दन इति स्यादित्यत आह– परनिपात इति ।। नन्वेेवं सति ‘नलोपो नञः’ इति नलोपे द्वयोरकारयोः सवर्णदीर्घे कृतेऽजार्दन इति स्यादित्यत आह– अत एवेति ।। परनिपातादेवेत्यर्थः । परनिपाते सति नलोपाभावः कुत इत्यत आह– उत्तरपद इति ।। अलुगुत्तरपद इत्यधिकारादित्यर्थः । गमयतीति ।। अन्तर्णीतण्यर्थादर्द गतावित्यतः कर्तरि ल्युप्रत्यये तस्य युवरोरनाका-वित्यनादेशेऽर्दनेति स्थिते जनश्चासावर्दनश्चेति जनार्दन इति रूपमिति भावः ।। १८ ।।

भावदीपः

ननु ‘न जायते’ इति व्युत्पत्तौ ‘अजः’ इति भाव्यम् । ‘जन’ इति तु कथम्? इत्यत आह– नञः परनिपात इति ।। निरुक्तिबलादिति भावः । तावता कथं न लोपाभावः? इत्यत आह– अत एवेति ।। परनिपातत्वादेवेत्यर्थः । तत्रापि कुतः? इत्यत आह– उत्तरेति ।। तस्येति ।। लोपस्येत्यर्थः । ‘अलुगुत्तरपदे’ इत्युत्तरपदाधिकारात् ‘नलोपो नञः’ इति सूत्रे ‘नञो नलोपो भवति, उत्तरपदे परतः’ इति पाणिन्युक्तेः । इह च जपदस्य पूर्वपदत्वेन नञ उत्तरपदपरत्वाभावान्नलोपाभाव इत्यर्थः ।। गत्यर्थ एवात्र ग्राह्यः, नञो नान्यार्थ इति भावेनाऽह– गमयतीति ।। परिहरतीत्यर्थः ।।

वाक्यार्थप्रदीपः

ननु न जः अज इति भवितव्यम् । अस्य नञ्समासत्वेन नञ्समासे च तस्यैव प्रथमानिर्दिष्टत्वेन उपसर्जनत्वात् ‘उपसर्जनं पूर्वम्’ इत्युसर्जनस्यैव पूर्वत्वनियमात् ‘जन’ इति तु कथमित्यत आह नञः परनिपात इति ।। उदाहृतप्रमाणबलाद् नञः परनिपात इत्यर्थः ।। ननु तथापि ‘नलोपो नञः’ इति नञो नकारस्य लोपे द्विवारं सवर्णदीर्घे जार्दन इति स्यात् , जनार्दन इति तु कथमित्यत आह– अत एवेति ।। नञः परनिपातादेवेत्यर्थः । परनिपातेपि नलोपाभावः कुत इत्यत आह– उत्तरपदे तस्य स्मरणा-दिति ।। नलोपो नञः इत्यत्र अलुगुत्तरपदे’ इत्यतः उत्तरपद इत्यनुवृत्तेः उत्तरपदपरत एव नलोपविधानात् न जायत इति जन इत्यत्र नञः परतः उत्तरपदाभावेन नलोपाप्राप्तिरिति भावः ।

ननु जन इति नञोपि अर्दनशब्दे परतः ‘नलोपो नञः’ इति लोपः स्यादेवेति चेन्न । स्त्रैणार्थ इत्यत्र स्त्रीपुंसाभ्यां नञ्स्नयौ भवनाद् इति विहितस्य नञो नलोपाभावार्थं ‘नलोपो नञः’ इति सूत्रेण ‘रात्रेः कृति विभाषा’ इत्यतो अनुवृत्तायाः विभाषायाः व्यवस्थितविभाषात्वस्य न्यास एवोक्तत्वेन जनार्दन इत्यत्रापि नलोपाभावोपपत्तेरित्याहुः ।। वस्तुतस्तु प्रत्ययङित्वस्य वृद्धिस्वरयोश्चरितार्थत्वात् निपातत्रित्वस्याचरितार्थत्वात् नञ्ग्रहणेन सूत्रे प्रत्ययप्रसक्तेरावाभावात् पूर्वपदत्वेन नञः विशेषणाद्वा नञः पूर्वपदत्वाभावादेव स्त्रैणार्थ इत्यत्र नलोपाप्रसक्तिरिति पदमञ्जर्यामुक्तत्वेन स्त्रैणार्थ इत्यस्यान्यथासिद्धतया विभाषाग्रहणानुवृत्यभावेन तथा समाधानस्या-शक्यत्वादिति ध्येयम् ।।

गमयतीति ।। अन्तर्णीतण्यर्थात् अर्द गतौ इत्यत ‘कृत्यल्युटो बहुलम्’ इति बहुल-ग्रहणात् कर्तर्यपि ल्युटि तस्य ‘युवोरनाकौ’ इति अनादेशे अर्दन इति प्रातिपदिकनिष्पत्तिरिति भावः ।।

भावरत्नकोशः

।। वचनात् धातुव्याख्यानात् । ‘याच्यत्वात्’ इति वदन् बाहुलकात् कर्मणि ल्युटि, तस्य टित्करणसामर्थ्यात् पुंलिङ्गत्वमित्यभिसन्धत्ते । शङ्कर इति ।। तथा च तदीयं भाष्यम् ‘असुराणां देवप्रतिपक्षजनानां नरकादिगमयितृत्वात्, अभ्युदयनिश्रेय-सपुरुषार्थप्रयोजनं सर्वैर्जनैर्याच्यत इति वा’ इति । इदं तु ‘न जायते, अर्दयति संसारम्’ इति व्याख्यानं तु । तर्हि ‘अजार्दन’ इति स्यात् इत्यत आह– नञ इति ।। उपसर्जनस्य पूर्वं निपातनीयस्यापि श्रुतिबलात् परनिपातः पश्चात् प्रयोज्यत्वमित्यर्थः । तथापि ‘नलोपो नञः’ इति नकारलोपे सवर्णदीर्घे च ‘जार्दनः’ इति स्यादिति कुतो न स्यात् ? इत्यत आह– उत्तरपद इति ।। ‘नलोपो नञः’ नञो नकारस्य लोपो भवति उत्तरपदे परतः, ‘न ब्राह्मणः अब्राह्मणः’ इति सूत्रार्थोदाहरणे । अत्रैवोत्तरपदाधिकारभाष्ये ‘उत्तरपद इति किम्? परमनः’ इति प्रत्युदाहरणम् । एवं प्रकृतेऽपि ‘जनः’ इति नञः परनिपातस्य श्रौततया तस्योत्तरपदे परतोऽनुशिष्टो लोपो न भवति । नञ एव जपदादुत्तरपदत्वेन तस्यान्योत्तरपदकत्वाभावादिति भावः ।

अत्र एके चोदयन्ति । नञोऽप्युत्तरपदम् अर्दनशब्द एवास्तीति, तस्मिन् परतस्तस्य लोपः स्यादेवेति टीकोक्तो लोपाभावश्चिन्त्य इति । तन्न । नञा समस्यमानोत्तरपद एव तच्छास्त्र-प्रवृत्तेरभिमतत्वात् । तथा हि ‘नलोपो नञः’ इति सूत्रे ‘उत्तरपदे’ इत्यनुवर्तते । तत्सामर्थ्याच्च ‘पूर्वपदम्’ इत्येतदाक्षिप्यते । तच्च नञा विशेष्यते ‘नञ्रूपं यत् पूर्वपदम्’ इति । तथा च यस्मिन् समासे पूर्वपदोत्तरपदभावापन्नपदद्वयघटिते नञ् पूर्वपदम्, तस्मिन्नेव समासे यदुत्तरपदं तस्मिन् परतो नञो नकारस्य लोप इति निर्गलितार्थोऽभिमत इति, न प्रकृते नलोपप्रसक्तिः । नञा समस्यमानस्य जपदस्योत्तरपदत्वाभावाद्, अर्दनशब्दस्य च नञ््घटितसमासानन्तर्गतत्वात् । नचैवं विवक्षायाम् ‘स्त्रैणार्थः’ इत्यत्रार्थशब्दे परतः ‘स्त्रीपुंसाभ्यां नञ्स्नञौ भवनात्’ इति सूत्रविहिततद्धितप्रत्ययरूपनञो नकारस्य लोपः स्यादिति पर्यनुयोगस्य, ‘रात्रेः कृति विभाषा’ इत्यतो विभाषाग्रहणानुवृत्तेः, तस्याश्च विभाषाया व्यवस्थितविभाषात्वाभ्युपगमेन नोक्तस्थले नलोप इति न्यासकारसमाधानमयुक्तं स्यात् । पूर्वपदत्वविवक्षयैव नलोपापादनाप्रसक्तेरिति वाच्यम्् । उपायस्योपायान्तरादूषकत्वाद् । उक्तविवक्षामनभ्युपगम्य नञ्घटितसमासत्वमात्रा-श्रयणेन नञ्लोपाक्षेपसमाधाने न्यासकारेण कृते, अस्माभिस्तु पूर्वपदत्वाश्रयणेन । न्यासकारोक्त-परिहाराभिप्रायेणैव ‘नगनाकादिशब्दवद्् अयंशब्दो ज्ञातव्यः’ इति टीकाव्याख्यानचन्द्रिकायां नारायणशब्दे नञो नलोपाभाव उक्तः ।

हरदत्तस्तु ‘स्त्रैणार्थः’ इत्यत्र नञो नलोपो न भवति । ‘नञो नलोप’ इत्यत्र निरर्थकानु-बन्धनञो ग्रहणात् । तद्धितनञस्तु सानुबन्धकस्यैवात्र ग्रहणम्, अनुबन्धस्य च वृद्धिस्वरौ प्रयोजनमिति, नञो नलोपः स्यादिति न शंक्यम् । उत्तरपदग्रहणेन पूर्वपदाक्षेपाद्वा तदप्रसक्तिः । तद्धितस्य नञोऽपदत्वादिति समाधानद्वयमभ्यधत्त । तथा च न्यासहरदत्तमतद्वयेनापि नात्र लोेपशङ्केति द्रष्टव्यम् । ‘गत्यर्थाकर्मक’ इत्यादिना भवतेः कर्तरि निष्ठायाम् अवध्यनुक्तेः, अस्तेश्च भवत्यर्थकत्वाद् ‘अनादिकालतः सत्तावान्’ इति कथं लभ्यते इत्यत आह– स ह्यासीदिति ।। ‘न जायते’ इति भाष्याविसंवादायाह– नासीन्न जन्मवानिति ।।

गीताक्षरार्थस्तु– तामात्मनो विभूतिं योगं च सामर्थ्यं विस्तरेण भूयः पुनः कथय, ते अमृतं वचनामृतं शृण्वतो मे तृप्तिर्नास्ति हि । हिशब्दो भगवताऽप्येतदवगतमिति द्योतनार्थः । हे जनार्दन न जायत इति जनः, नञः परनिपातः । अत एव नलोपाभावः । उत्तरपदे तस्य स्मरणात् । ‘जनेर्डः’ । अर्दयति गमयति संसारमिति अर्दनः । अर्दतेर्गतिकर्मणो ण्यन्तात् ल्युप्रत्यये रूपम्् । जनश्चासावर्दनश्च जनार्दनः । स्वयं जननरहितः, अन्येषां संसारं प्रापयिता चेति जनार्दनः, तत्सम्बुद्धिरिति ।। १८ ।।

भावदीपिका

ननु ‘न जायते’ इति ‘नजः’ इति भाव्यम् । तथा च ‘नजश्चासावर्दनश्च’ इति ‘नजार्दनः’ इति स्यात् ? इति चेत्, तत्राह– नञ इति ।। तथा च ‘न जायत इति नजः’ इति भाव्ये नञः परनिपाते ‘जनः’ इति भवति । ननु तथाऽपि ‘नलोपो नञः’ इति नञो लोपे ‘अजः’ इत्येव स्यात्, तथाच ‘अजार्दनः’ इत्येव भवेत्? इति चेत्, तत्राह– अत एवेति ।। नञः परनिपातादेवेत्यर्थः । तथाऽपि कथं नलोपाभावो नेति चेत्, तत्राह– उत्तरपद इति ।। ‘अलुगुत्तरपदे’ इति पूर्वसूत्राद् ‘उत्तरपदे’ इत्यनुवर्त्य ‘नलोपो नञः’ ‘नञो नस्य लोपः स्याद् उत्तरपदे परतः’ इत्युक्तत्वात् । यद्यत्र ‘नजः’ इत्येव स्यात्, तदा ‘जः’ इत्युत्तरपदे परतः नञो लोपः स्यात् । न चैवम् । नञः परनिपाताङ्गीकारेण ‘जनः’ इत्यस्मादुत्तरत्र पदाभावात् । अतो न नञो लोपः । तथा च ‘जनः’ इत्युपपन्नमिति द्रष्टव्यम् । ‘जनः’ इत्यस्य ‘अर्दनः’ इत्यस्य च स्वतन्त्रभगवन्नामत्वेन ‘अर्दनः’ इत्यस्योत्तरपदत्वानङ्गी-कारात्, नञर्थान्वयवत एवात्रोत्तरपदत्वविवक्षणादिति ध्येयम् ।। १८ ।।

भावप्रकाशः

।। गमयितृत्वादिति ।। अनेन अर्दयतीत्यर्दनः । नन्द्यादि-त्वाल्ल्युः । णेरनिटीति णिलोपः । युवोरनाकावित्यनादेशः । ततो जनानामर्दनो जनार्दन इत्युक्तं भवति । याच्यत्वाद्वेति ।। कृत्यल्युटो बहुलमिति बाहुलकात्कर्मणि ल्युडिति भावः । ननु जायत इति जः । अन्येष्वपीति डः । ततो नञ्समासे नलोपो नञ इति नलोपे चाज इति प्रयोगः स्यादित्यत आह– नञः परनिपात इति ।। श्रौतत्वादिति भावः । अत एवेति ।। परनिपातादेवेत्यर्थः । उत्तरपद इति ।। नलोपो नञ इत्यत्रालुगुत्तरपद इति सूत्रादुत्तरपद इति अधिकारादिति भावः । गमयतीति ।। अत्र व्युत्पादनं प्रागेव कृतम्

।। १८ ।।