धृत्या यया धारयते मनःप्राणेन्द्रियक्रियाः । योगेनाव्यभिचारिण्या धृतिः सा पार्थ सात्त्विकी ।। ३३ ।।

धृत्या यया धारयते मनःप्राणेन्द्रियक्रियाः ।

योगेनाव्यभिचारिण्या धृतिः सा पार्थ सात्त्विकी ।। ३३ ।।

भावरत्नकोशः

गीताक्षरार्थस्तु इदानीं धृतेः त्रैविध्यमुच्यते– धृत्येत्यादिभिः त्रिभिः । योगेन वैष्णवभक्तियोगेन युक्तया अव्यभिचारिण्या यया धृत्या मनःप्राणेन्द्रियाणां क्रियाः उच्छास्त्रमार्गप्रवृत्तेः धारयते निवारयति पुमान् सा धृतिः सात्त्विकी। केचित्तु मनः अन्तरिन्द्रियम् प्राणा पञ्चप्राणान् इन्द्रियाणि दशेन्द्रियाणि, क्रियाः कर्माणि च, धारयते धरतीति व्याख्यातवन्तः ।। ३३ ।।