श्रद्धावान् लभते ज्ञानं मत्परः संयतेन्द्रियः । ज्ञानं लब्ध्वा परां शान्तिमचिरेणाधिगच्छति ।। ३९ ।।

श्रद्धावान् लभते ज्ञानं मत्परः संयतेन्द्रियः ।

ज्ञानं लब्ध्वा परां शान्तिमचिरेणाधिगच्छति ।। ३९ ।।

भावरत्नकोशः

श्रद्धावानित्यादि श्लोकचतुष्टयस्याक्षरार्थस्तु– ज्ञानं स्तुत्वा तस्यान्तरङ्गसाधनं फलं चोच्यते– श्रद्धावानिति ।। अत्रोक्तमस्ति । अनेन मम प्रयोजनमस्तीत्या-स्तिक्यबुद्धिमान् तत्परः ज्ञानलब्ध्युपायासक्तः संयतेन्द्रियः संयतानि विषयेभ्यः सम्यङ्-निवर्तितानीन्द्रियाणि यस्य स तथा । स च ज्ञानं लभते । एवम्भूतं ज्ञानं लब्ध्वा परां शान्तिम् अखिलक्लेशनिवृत्तिविशिष्टपरमानन्दलक्षणमोक्षं अचिरेणाधिगच्छति असति प्रारब्धे, सति तु तस्मिन् तद्भोगसमनन्तरमेवेति शास्त्रान्तरसिद्धम् ।। ३९ ।।