विद्याविनयसम्पन्ने ब्राह्मणे गवि हस्तिनि । शुनि चैव श्वपाके च पण्डिताः समदर्शिनः ।। १८ ।।
विद्याविनयसम्पन्ने ब्राह्मणे गवि हस्तिनि ।
शुनि चैव श्वपाके च पण्डिताः समदर्शिनः ।। १८ ।।
भाष्यम्
परमेश्वरस्वरूपाणां सर्वत्र साम्यदर्शनं चापरोक्षज्ञानसाधनमित्याशय-वानाह– विद्येति ।। १८ ।।
भावप्रदीपिका
उत्तरश्लोकद्वयं क्रमेणावतारयति– परमेश्वरेति ।। १८ ।।
भावप्रकाशिका
समदर्शनमप्यपरोक्षज्ञानद्वारेणैवापुनरावृत्तिसाधनम् । न तु साक्षादिति भावेनोत्तरश्लोकमवतारयति– परमेश्वरेति । ‘ब्राह्मणे गवि’ इत्यधिकरणे सप्तमी । समदृष्टिविषयस्तु ततः ब्रह्मैव । ‘निर्दोषं हि समं ब्रह्म’ इति वक्ष्यति । न च तेषामेव ब्रह्मता । सर्वप्रमाणविरोधादिति भावः ।। १८ ।।
प्रमेयदीपिका
‘विद्याविनय’ इत्यादि प्रकृतानुपयुक्तमयुक्तं च कथमुच्यते? इत्यत आह– परमेश्वरेति ।। सर्वत्र ब्राह्मणादिषु स्थितानाम् । सर्वत्र गुणेषु दोषाभावेषु वा । साम्यं तारतम्याभावः । तद्बुद्धित्वादिना सहास्य समुच्चयार्थश्चशब्दः । परमेश्वरविषयता ‘निर्दोषं हि’ इत्युत्तरवाक्यगम्या । अपरोक्षज्ञानसाधनता च प्रकरणगम्येत्यतः आशयवान् इत्युक्तम् । पण्डितशब्दस्तु परोक्षज्ञानवचनः । ‘पाण्डित्यमागमज्ञानम्’ इति वचनात् ।। १८ ।।
भावदीपः
।। प्रकृतानुपयुक्तमयुक्तञ्चेति ।। अपरोक्षज्ञानहेतूक्तेः प्रकृतत्वात् तदुपयोगिसर्वेषु साम्यदर्शनमयुक्तं च । (योगविवरणं च किञ्चिदधिकमिति ‘ब्रह्मण्याधाय’ इत्यनेनेत्यर्थः । साम्यदर्शनस्य) तत्तद्योग्यतानुरोधेन दर्शनस्यैव युक्तत्वादिति भावः । भेदव्याप्त-समत्वस्य प्रकृते अभावादाह– तारतम्याभाव इति ।। परमेश्वरविषयतेति ।। ‘साम्यदृष्टेः’ इति योज्यम् ।। १८ ।।
भावरत्नकोशः
।। प्रकृतानुपयुक्तमिति । संन्यासयोगज्ञानानाम् अन्यतम-स्यानुक्तेः, अपरोक्षज्ञाना-व्यवहितसाधनानुक्तेर्वेति भावः । अयुक्तं चेति । ‘ब्राह्मणादयः समाः’ इति ज्ञानं हि समदर्शनम् । तदयुक्तमापादयितुम् । तेषां साम्याभावानुभवादिति भावः । ‘ब्राह्मणे गवि’ इत्याद्यधिकरणसप्तमीति प्राचीनटीकाऽनुरोधेन भाष्यं व्याचक्षाणः शेषमाह– सर्वत्रेति ।। अनध्याहारेण पक्षान्तरमाह– सर्वत्र गुणेष्विति ।। ननु साम्यं नाम सादृश्यम् । तच्च तद्भिन्नत्वे सति तद्गतभूयोधर्मवत्त्वम् । न च परमेश्वररूपाणां भेदोऽस्ति । ‘न स्थानतोऽपि परस्योभयलिङ्गं सर्वत्र हि’ इति प्रतिषेधात् । न चेश्वरीयगुणानां दोषाभावानां च परस्परसाम्यदर्शनमत्र विवक्षितम् । तेषामपि भेदव्याप्यसाम्यस्य ‘आ याहि समसद्गुणैः’ इत्यादौ प्रतिक्षेपात् इत्यत आह– साम्य-मिति ।। अस्य साम्यदर्शनस्य । परमेश्वररूपाणां साम्यदर्शनम् अपरोक्षज्ञानसाधनमित्युक्तं भाष्ये । न चायमर्थः श्लोकाक्षरात्प्रतीयते इत्यत आह– परमेश्वरेति ।। अस्य श्लोकस्य, साम्यदृष्टेर्वेति योज्यम् । उत्तरवाक्यम् अव्यवहितोत्तरश्लोकः । तद्बुद्धित्वादेरपरोक्षज्ञानाव्यवहितसाधनतायाः पूर्ववाक्ये प्रकृतत्वादाह– प्रकरणेति ।। ननु ‘ये समदर्शिनस्ते पण्डिताः’ इति वचनेनैव पाण्डित्य-शब्दितापरोक्षज्ञानाव्यवहितसाधनत्वं साम्यदर्शनस्य तद्बुद्धित्वादेरिवाहत्योच्यत इति कथं तस्य प्रकरणगम्यत्वमित्यत आह– पण्डितशब्दस्त्विति ।। नायं पण्डितशब्दोऽपरोक्षज्ञानिनमाह । प्रमाणेनागमजन्यपरोक्षज्ञान्यर्थत्वेन व्याख्यातत्वादिति भावः ।। १८ ।।
गीताश्लोकाक्षरार्थस्तु परमेश्वररूपाणां सर्वत्र साम्यदर्शनं चापरोक्षज्ञानसाधनम् इत्याशये-नोच्यते– विद्येति । पण्डिताः आगमजन्यपरोक्षतत्त्वनिश्चयवन्तः । श्रोत्रियब्राह्मणादिषु स्थितं ब्रह्म समं पश्यन्तीति समदर्शिनः ज्ञाननिर्धूतकल्मषाः गच्छन्त्यपुनरावृत्तिम् इति । ‘तस्माद्ब्रह्मणि स्थिताः’ इत्युक्तवक्ष्यमाणवचनादुक्तार्थलाभः ।। १८ ।।
भावदीपिका
।। प्रकृतानुपयुक्तमिति ।। प्रकृतापरोक्षज्ञानसाधनत्वाभावादिति भावः ।। अयुक्तं चेति ।। सर्वत्र ब्राह्मणादिषु साम्यदर्शनस्यायुक्तत्वादिति भावः ।। तद्बुद्धि-त्वादिनेति ।। अस्य साम्यदर्शनस्य तद्बुद्धित्वादिना पूर्वोक्तेन सह समुच्चयार्थ इत्यर्थः । नन्वेतच्छ्लोकोक्तसाम्यदर्शनस्य परमेश्वररूपविषयत्वं कुतो गम्यते ? इत्यतो ‘निर्दोषं हि समं ब्रह्म’ इत्युत्तरवाक्यबलादित्याह– परमेश्वरेति ।। नन्वेतत् साम्यदर्शनस्यापरोक्षज्ञानसाधनत्वं केन ज्ञातव्यमित्यत उक्तम्– अपरोक्षेति ।। प्रकरणेति ।। अपरोक्षज्ञानसाधनकथनप्रकरण एवोक्तत्वा-दित्यर्थः ।। इत्यत इति ।। वाक्यप्रकरणाभ्यामेव ज्ञायमानत्वेन स्पष्टमनुक्तत्वाद् इत्यभिप्रायेणेत्यर्थः । नन्वपरोक्षज्ञानवत एवेदं साम्यदर्शनं कथ्यते, ‘पण्डिताः समदर्शिन’ इति वचनात्, न त्वपरोक्ष-ज्ञानसाधनत्वेन ? इत्यत आह – पण्डितशब्दस्त्विति ।। आगमज्ञानम् आगमजन्यं ज्ञानमित्यर्थः
।। १८ ।।
भावप्रकाशः
।। प्रकृतानुपयुक्तमिति ।। सन्न्यासयोगज्ञानानामन्यतमस्यानुक्तेरिति भावः । अयुक्तं चेति ।। ब्राह्मणादीनां साम्याभावादिति भावः । ननु तद्भिन्नत्वे सति तद्गत(भूयो)धर्मवत्वं साम्यम् । तच्च परमेश्वररूपाणां भेदाभावादयुक्तम् । न चेश्वरीयगुणानां तदीयदोषाभावानां च साम्यं विवक्षितम् । तेषामपि भेदाभावात् । साम्यस्य सम्बन्धितया षष्ठ्या न्याय्यत्वेन सप्तम्ययोगाच्चेत्यत आह– तरतमभाव इति ।। ननु पण्डिता भूत्वा समदर्शिन इति योजनायां साम्यदर्शनस्यापरोक्षज्ञानसाध्यत्वप्राप्तेः कथमपरोक्षज्ञानसाधनत्वमुक्तम् । समदर्शिनो भूत्वा पण्डिता इति योजनायां तु कण्ठरवेणैव अपरोक्षज्ञानसाधनत्वप्राप्तेः कथं प्रकरणगम्यत्वमुक्तमित्यत आह– पण्डितशब्दस्त्विति ।। १८ ।।