भक्त्या त्वनन्यया शक्य अहमेवंविधोऽर्जुन । ज्ञातुं द्रष्टुं च तत्त्वेन प्रवेष्टुं च परन्तप ।। ५४ ।।•

भक्त्या त्वनन्यया शक्य अहमेवंविधोऽर्जुन ।

ज्ञातुं द्रष्टुं च तत्त्वेन प्रवेष्टुं च परन्तप ।। ५४ ।।•

भावरत्नकोशः

गीताक्षरार्थस्तुतर्हि केनोपायेन द्रष्टुं शक्य इत्यत उच्यते– भक्त्या त्विति ।। इतरोपायवैशेष्यद्योतनाय तुशब्दः । ‘यादृशी तत्र भक्तिः स्यात् तादृश्यन्यत्र नैव चेत्, अनन्यभक्तिः’ इति वचनात् । अनन्यया अनितरसाधारण्या तत्त्वेन याथात्म्येन ज्ञातुं द्रष्टुम् अपरोक्षीकर्तुं प्रवेष्टुं च ।। ५४ ।।